Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्रचरित्रं
कूर्मापुत्रचरित्रं
8282828282828282828282828
क्षपणश्रेणिक्रमस्त्वित्थंभूतः-प्रथममनन्तानुबन्धिनश्चत्वारः कषायाः । तदनन्तरं मिथ्यात्वमोहनीयमिश्रमोहनीय-सम्यक्त्वमोहनीयनां सप्तप्रकृतयश्च सन्ति । एतान्सर्वान् क्षपयित्वा क्रमेण प्रत्याख्यानाऽप्रत्याख्यानयोर्द्धयोरष्टौ कषायौ नपुंसकवेद-स्त्रीवेदौ हास्यादिषट्कं पुरुषवेदं संज्वलनक्रोधादिकञ्च क्षपयति । अष्टकषायक्षपणमन्तरा नरकगतिं नरकानुपूर्वी तिर्यग्गति तिर्यश्चानुपूर्वीमेकेन्द्रियजाति द्वीन्द्रियजाति त्रीन्द्रियजातिं चतुरिन्द्रियजातिमातपमुद्योतं स्थावरनामकर्म सूक्ष्म साधारणं अपर्याप्तं निद्रानिद्रे प्रचला प्रचलाप्रचला स्त्यानद्धिं च क्षपयति । ततोऽष्टकषायशेषांशं क्षपयति । अनन्तरं विश्रान्तो भूत्वा केवलज्ञानप्राप्तिमन्तरा-निद्रां प्रचलां नामकर्मणां च देवगति-देवानुपूर्वीवैक्रियशरीरनामकर्मद्वितीयादिपञ्चसंघयणा: स्वेतरा: पञ्चसंख्याना-स्तीर्थंकरनामकर्म आहारशरीरनामकर्म च एता: पञ्चदश प्रकृती: क्षपयति । तथैवान्ते ज्ञानावरणस्य पञ्च प्रकृतीदर्शनावरणस्य चतस्रः (१) अपर्याप्तं नामकर्म चतुर्दशमे गुणस्थाने द्विचरमावसरे क्षपणीयमिति कर्मग्रन्थे कथितम्, तथैव षोडशप्रकृतीरपि प्रत्याख्यानप्रत्याख्यानकषाययोर्मध्ये क्षपणीया इत्युक्तमस्ति. (२) एतासु पशवशप्रकृतिषु मध्ये चतुर्दशनामकर्मप्रकृती: चतुदशर्मगुणस्थाने द्विचरमसमये क्षपयतीति, तथा च जिननाम चरमसमय क्षपयतीति, कर्मग्रन्थ उक्तम्
3282838383838383838383838
॥ १०७
॥
॥ १०७ ॥
For Personal Private Use Only
jainelibrary.org
Loading... Page Navigation 1 ... 118 119 120 121 122 123 124