Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 118
________________ कूर्मापुत्र कूर्मापुत्र चरित्रं चरित्रं *Y2YYYYYYYYYYY सर्वत्र न दृश्यन्ते । गुरुप्राप्ते सति धर्मश्रवणं दुर्लभम् । यतो बहशो जना विषयरसनिमग्ना एव भवन्ति । जिनवचनश्रद्धायां सत्यामपि तदुक्तक्रियाकरणमतीव दुर्लभम् । यतस्तामपि प्रमादशत्रु: परिभावयति । उक्तञ्च, यत: 'प्रमाद: प्राणिनां शत्र-मक्तिपरीप्रवारकः । प्रमादो नरकस्थानं तस्मात्तं परिवर्जयेत ॥१२॥ ये जना: पूर्वोक्तां सामग्री लब्ध्वा प्रमादञ्च त्यक्त्वा चारित्रिणो भवन्ति, त एव धन्यास्त एव पुण्यवन्तस्त एव मोक्षमाप्नुवन्ति । एवंविधं जिनेश्वरभाषितं धर्मोपदेशं श्रुत्वा प्रबुद्धाः केचिज्जनाश्चारित्रमङ्गीचक्रुः, केचिज्जना देशविरतिञ्च जगृहुः केचिज्जना: सम्यक्त्वमगृह्णत, । अस्मिन्नवसरे कमला-भ्रमर-द्रोण-द्रुमानां जीवा ये प्रथमं महाशुक्रदेवलोके उत्पन्ना आसन् । ते ततश्च्युत्वा भरतक्षेत्रे वैताढ्यपर्वते विद्याधरा अभवन् । तदनन्तरं चारणमुनिपावें दीक्षां गृहीत्वा विहरन्त: सन्तो यत्र श्रीमत्तीर्थंकरो धर्मदेशनां ददति तत्र समाजग्मुः । तीर्थंकरं वन्दित्वोपविष्टान् तान् दृष्ट्वा चक्रवर्ती जिनेश्वरं पप्रच्छ । भगवन् ! एते मुनिवरा: के ? कुत: समागता: ? तत् कथयतु भवान्, तदा जिनेश्वरेणाऽभाणि-राजन् ! शृणु, इमे चत्वारोऽपि मुनयो मद्वन्दनार्थं 8282828282828282828282828 ॥१०५ ॥ ॥ १०५ ॥ Jain Educal For Personal Private Use Only Hinw.jainelibrary.org

Loading...

Page Navigation
1 ... 116 117 118 119 120 121 122 123 124