Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्र
चरित्रं
कूर्मापुत्र
चरित्रं
282828282828282828282828
वसतोऽपि तस्य केवलज्ञानमुत्पन्नं यत्तच्छुभध्यानेनैव । तथैव भरतचक्रवर्त्यपि मनोहरेऽत्युत्तमेऽन्तःपुरे निवसन् सततशुभध्यानयोगत: कदाचिदरिसाभुवने, इलापुत्रश्व वंशाग्रे नृत्यन् गोचरचर्यां चरतो मुनेदर्शनात्केवलज्ञानमलभत । एवमाषाढभूतिर्गृहस्थोऽपि कदाचिद्भरतचक्रवर्तिनो नाटकं कुर्वन्नरिसाभुवनवेषावसरे शुभध्यानयोगत: केवली संजात: । यत: सर्षपमेरुपर्वतयोरिव द्रव्यभावक्रिययोर्महदन्तरं वर्तते । द्रव्यस्तवाराधयिता खलु अच्युतदेवलोकावधि गच्छति, परं भावस्तवप्रभावाद्धि क्षणान्मोक्षमधि-गच्छति नात्र कश्चित्संदेहः । अस्मिन्मनुष्यक्षेत्रे (सार्धद्वीपद्धये) पञ्चमहाविदेहक्षेत्राणि वर्तन्ते । तत्र प्रतिविदेहं द्वात्रिंशद्वात्रिंशद्धिजया: सन्ति, ते हि विजया: पञ्चगुणिता: सन्त: षष्ठ्युत्तरशत (१६०) संख्याका भवन्ति । तत्राऽपि पञ्चभरतक्षेत्राणि पञ्चैरावतक्षेत्राणि च सन्ति, तेषां मेलने सप्तत्युत्तरशत (१७०) संख्याकानि क्षेत्राणि भवन्ति । तेषु सर्वेषु क्षेत्रेषुत्तमकाले पृथक् तीर्थंकरा विचरन्ति, तेन तीर्थंकरा अपि सप्तत्युत्तरशतमिता: समकाल एव लभन्ते । इदं हि प्रासडिकमुक्तम्, प्रकृतमनुसराम: महाविदेहे मंगलावत्याख्यायां प्रसिद्धविजयायां धनधान्यपरिपूर्णा रत्नसंचया नाम्नी नगर्यासीत् । तत्र निजप्रतापजितसूर्य: चतुष्षष्ठिसहस्त्र (६४०००) स्त्रीस्वामी देवादित्याख्यश्चक्रवर्ती
YUXURYNY RYNXXXXXXXXXXX
॥ १०३ ॥
॥ १०३ ॥
For Person
Private Use Only
Hw.jainelibrary.org
Loading... Page Navigation 1 ... 114 115 116 117 118 119 120 121 122 123 124