Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 114
________________ कूर्मापुत्रचरित्रं ॥ १०१ ॥ • Jain Educat ERERERERERERERERERERERY षड्जीवनिकायानां सम्यक् पालनमेव प्रथमो धर्म इति कथयामासुः । यतः सर्वेष्वपि महाव्रतेष्वहिंसापालनमेव मुख्यं व्रतं । दशवैकालिकसूत्रे श्रमणभगवान् श्रीमहावीरस्वामी सर्वजीवेषु विशेषतो दयालुत्वमेव मुख्यो धर्म इति कथयामास । उपदेशमालायामपि रहितषण्णिकायदयः पुरुषो न चारित्री नवा गृहस्थः । अपि च यतिर्धमाभ्रष्टः पुरुषो गार्ह्यस्थादपि भ्रष्टो भवति । इति मेघगर्जितानुकुलवतीं वाणीं श्रुत्वा राज्ञ्या मनोमयूर उल्ललास । तदनन्तरं दोहदस्य पूर्णत्वेन संपूर्णसर्वाङ्गसुन्दरं बालं शुभदिने सा सुषुवे । दिवि देवगणाधिपाग्रहादमरीणामिव वाद्यपूर्वकम् । भुवि नृत्यविधिं समाचरत्सुषमाशालिविलासिनीजनः ||१०|| चतुरचित्तचमत्कृतिमादधत् सुमनसां समिताविव संस्तवम् । अलपदारचिताऽलघुनिः स्वनं नृपसभान्तरपि किल पाठकः || ११|| तदनन्तरमस्य पितृभ्यां दोहदानुस्मरणपूर्वकं कुमारस्य धर्मदेव इति नाम निर्ममे । तथैवापरं कूर्मादेव इति नामाऽपि नामकरणसंस्कारावसरे निर्मितवन्तौ एतावुभे तस्य नाम्नी सार्थके प्रसिद्धि For Personal & Private Use Only FREREREREREREREREREREREI कूर्मापुत्र चरित्रं ॥ १०१ ॥ ww.jainelibrary.org

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124