Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 112
________________ कूर्मापुत्रचरित्रं कूर्मापुत्रचरित्रं 9282828282828282828282828 लोके त एव श्लाघ्या: कथ्यन्ते । इति धर्मदेशनां श्रुत्वा कुमारेण गुरोः सकाशात्सर्वसंन्यासपूर्व' चारित्रमङ्गिकृतम् । यक्षिण्यापि सम्यक्त्वं गृहीतम् । तदनन्तरं स कुमार: स्थविरसाधोः पार्थाच्चतुर्दशपूर्वाण्यधीतवान्, दुष्करां तपश्चर्यांच्च कुर्वन् मातापितृभ्यां सह विजहार । एवं ते त्रयोऽपि चिरं चारित्रं प्रपाल्य महाशुक्राख्ये सप्तमे देवलोके मन्दिरनाम्नि विमाने देवत्वेनोत्पन्नाः । इत: सा यक्षिणी मृत्वा वैशाल्यां नगर्यां भ्रमाख्यस्य राज्ञ: कमलाभिधाना सत्यधर्मपरायणा भार्या बभूव । क्रमात्तौ दम्पत्यपि जिनधर्मं गृहीत्वान्ते शुभध्यानेन कालं क्षपयित्वा तस्मिन्नेव महाशुक्राख्ये देवलोके मन्दिरविमान एव श्रेष्ठदेवत्वेनोत्पन्नौ । अस्मिन् जम्बूद्वीपे देदीप्यमाननीतिमन्दिरमिव धनधान्यादिसकलसमृद्धिसंभृतं सकललोकप्रसिद्ध राजगृहं नाम नगरमस्ति । तत्र महेन्द्रसिंहो नामा राजा राज्यमकरोत् । य: सर्वशत्रुगजकुंभविदलनहरिरिवाऽभूत् । यस्य नामस्मरणमात्रेणैव रणे प्रतिभटा: पलायाञ्चक्रुः । तस्य रूपसंपत्त्याऽपरा श्रीरिव कूर्मादेवी नाम्नी राज्यासीत् । सा च विनयविवेकविचारादिगुणाभरणभूषिता बभूव । (१) सर्वत्यागपूर्वकेण (२) सिंहः 8282828282828282828282828 Jain E cate For Personal & Private Use Only jainelibrary.org

Loading...

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124