Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 110
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 128282828282828282828282 शोकान्निवारयन्ती सा यक्षिणी वस्त्राञ्चलेन प्राञ्छिवती, अहो ? कीदृशं मोहविलसितम् । तदनन्तरमेनं पितृदर्शनजन्यहर्षमापूर्णं सा यक्षिणी केवलिप्रभोः पार्श्व उपनीतवती । तदा केवलिप्रभुः सर्वोपकारिण्या सुधासमरसस्त्राविण्या वाण्या धर्मदेशनां दातुं समारेभे । तद्यथा भो भव्या: ! ये जना अतिदुर्लभं नृभवं प्राप्यापि धर्मं न कुर्वन्ति ते तं चिन्तामणिरत्नं समुद्र इव दुष्कर्मोदधौ निक्षिप्य शोचन्ति । तदुपरि दृष्टान्तो यथा कस्मिंश्चिन्नगरे कोऽपि कलाकलापपारगामी वणिगधिवसति स्म । स गुरुप्रासादाद्रत्नपरीक्षाकरणो-पयोगिनो ग्रन्थानधीतवान् । स सौगन्धिक-कर्केतन-रक्त-गोमेद-इन्द्रनील-जलकान्तसूर्यकान्त-यमसार-गर्भाङ्क-स्फटिकादिरत्नानाम् लक्षणगुणवर्णनामगोत्रादिकं सर्वमवगतवान् रत्नपरीक्षानिपुणश्च सञ्जातः, एकदा स वाञ्छितसिद्धिदश्चिन्तामणिरेव मयार्जनीय: किमन्यैरल्पगुणै रत्नैरिति मनसा ध्यात्वा खनी: खनित्रैः खनयामास, तथापि तत्रतस्तं न लब्धवान्, तदा केनापि पुरुषेणाऽकथि भो वणिग् ! नौकायामुपाविश्य रत्नद्वीपं गच्छ । तत्र आशापुरी नाम्नी देवी वर्तते, सा ते वाञ्छितं पूरयिष्यति । तच्छ्रत्वा सोऽपि रत्नद्वीपं गत्वा एकविंशत्युपवासैर्जपादिकर्मणा XXXXXXXXXXXXXXXXXXXXXXX ॥ १७॥ ॥ ७ ॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124