Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 117
________________ कूर्मापुत्रचरित्र ॥ १०४ ॥ Jain Educati RERERERERERERERERERERERE बभूव । एकदा जगदुत्तमाख्यस्तीर्थंकरो विहरन् तत्र घनवृक्षमंडित उद्याने समवसृतः । तदा वैमानिका ज्योतिषिका भवनपतिदेवाश्च रत्नसुवर्णरूप्यादिभिस्त्रिभिः प्रकारैः समवसरणरचनामकार्षुः । सूर्यागमेन चक्रवाक इव जिनागमेन चक्रवर्त्यल्ललास, सपरिवारो वन्दनार्थमायातश्च । श्री जिनेश्वरं त्रिः प्रदक्षिणीकृत्य सविधिवन्दनं कृत्वा योग्यासनमलञ्चकार । तदनन्तरं भव्येभ्योऽपारसंसारसमुद्रतरणाद्वितीययानपात्रनिभया वाण्या स प्रभुर्धर्मदेशनामदात् । चत्तारि परमंगाणि, दुल्लहाणीह जन्तुणो । माणुस्सन्तं सुइ सद्धा, संजमम्मि य वीरियं ॥ (उत्तरा. अ. ३/१) भो भव्याः ! निगोदनिवासी जीवस्तत्रतो निःसृत्य भवभ्रमणङ्कुर्वन् बहुपुण्येन मनुष्यत्वमधिगच्छति । तल्लब्ध्वाप्यार्यक्षेत्रमुत्तमकुलप्रसूतत्वमतीव दुर्लभम् । यत् प्रायशो बहुशो जीवाः पाटच्चरादिजातिष्वनार्यक्षेत्रेषूत्पद्यन्ते । आर्यक्षेत्रं मनुष्यत्वं लब्ध्वापि पञ्चैन्द्रियाणामविकलत्वमारोग्यञ्चातिदुर्लभम् । यतः प्रायेण कस्यापि जनस्य शरीरं रोगरहितं न दृश्यते । इन्द्रियाणां सौन्दर्यमारोग्यतां च लब्ध्वा जिनधर्मसामग्र्यतीव दुर्लभा । यत उत्तमगुणविशिष्टाः साधवः For Personal & Private Use Only REDERERERERERERERERERERY कूर्मापुत्र चरित्रं ॥ १०४ ॥ . v.jainelibrary.org

Loading...

Page Navigation
1 ... 115 116 117 118 119 120 121 122 123 124