SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 128282828282828282828282 शोकान्निवारयन्ती सा यक्षिणी वस्त्राञ्चलेन प्राञ्छिवती, अहो ? कीदृशं मोहविलसितम् । तदनन्तरमेनं पितृदर्शनजन्यहर्षमापूर्णं सा यक्षिणी केवलिप्रभोः पार्श्व उपनीतवती । तदा केवलिप्रभुः सर्वोपकारिण्या सुधासमरसस्त्राविण्या वाण्या धर्मदेशनां दातुं समारेभे । तद्यथा भो भव्या: ! ये जना अतिदुर्लभं नृभवं प्राप्यापि धर्मं न कुर्वन्ति ते तं चिन्तामणिरत्नं समुद्र इव दुष्कर्मोदधौ निक्षिप्य शोचन्ति । तदुपरि दृष्टान्तो यथा कस्मिंश्चिन्नगरे कोऽपि कलाकलापपारगामी वणिगधिवसति स्म । स गुरुप्रासादाद्रत्नपरीक्षाकरणो-पयोगिनो ग्रन्थानधीतवान् । स सौगन्धिक-कर्केतन-रक्त-गोमेद-इन्द्रनील-जलकान्तसूर्यकान्त-यमसार-गर्भाङ्क-स्फटिकादिरत्नानाम् लक्षणगुणवर्णनामगोत्रादिकं सर्वमवगतवान् रत्नपरीक्षानिपुणश्च सञ्जातः, एकदा स वाञ्छितसिद्धिदश्चिन्तामणिरेव मयार्जनीय: किमन्यैरल्पगुणै रत्नैरिति मनसा ध्यात्वा खनी: खनित्रैः खनयामास, तथापि तत्रतस्तं न लब्धवान्, तदा केनापि पुरुषेणाऽकथि भो वणिग् ! नौकायामुपाविश्य रत्नद्वीपं गच्छ । तत्र आशापुरी नाम्नी देवी वर्तते, सा ते वाञ्छितं पूरयिष्यति । तच्छ्रत्वा सोऽपि रत्नद्वीपं गत्वा एकविंशत्युपवासैर्जपादिकर्मणा XXXXXXXXXXXXXXXXXXXXXXX ॥ १७॥ ॥ ७ ॥ For Personal Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy