SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं ।। ९६ Jain Educ EREREREREREREREREREREREI वा केनचिन्ममापराधेन विषण्णासीति कोमलेन वचसा पृष्टाऽपि विषादमुद्रितवदना न किञ्चिदूचे पुनरपि स स्वशपथं पृष्टा सती भो स्वामिन् ! केवलिभाषितवचनेन भवदायुषोऽल्पत्वं ज्ञात्वा भवद्वियोगविधुरितमानसा वामे विधौ किमहं करिष्यामीत्युवाच । तच्छ्रुत्वा कुमारः कथयतिखेदं मा कुरु वामाक्षि ! चञ्चलस्यायुषः कृते । नय मां श्रीगुरोः पार्श्वे यदात्मानं प्रसाधये ॥८॥ तच्छ्रुत्वा साऽपि तं तत्र गुरोः पार्श्वे समानयत् । वन्दित्वा सोऽपि तं तत्र योग्यासनमुपाविशत् ॥९॥ तदा तत्र स्थितौ गृहीतमुनिवेषौ तं दृष्ट्वा स्नेहोदिताश्रुनेत्रौ रुरुदतुः । तदा मुनिः प्राह भो कुमार ? अत्रस्थितौ मुनी ते मातापितरौ वर्त्तेते, तौ वन्दस्व । तच्छ्रुत्वा कुमारः पृच्छति प्रभो ! ताभ्यां व्रतं कथं स्वीचक्रे । तदा केवलिना पुत्रवियोगादिके सर्वोदन्ते कथिते सति मेघं दृष्ट्वा मयूर इव, चन्द्रं दृष्ट्वा चकोर इव, सूर्यं दृष्ट्वा चक्रवाक इव गां दृष्ट्वा वत्स इव, मनोहरं वसन्तर्तुं दृष्ट्वा कोकिल इव, स कुमारो हर्षान्वितोऽभवत् । तद्वशाच्च तस्याङ्गानि रोमाञ्चितानि संजातानि तदनन्तरं 'पित्रोः कण्ठे लगित्वा रोदनं कुर्वतस्तस्याश्रूणि मधुरेण वचसा १. निअमायतायमुणीण कंठम्मि विलग्गिऊण रोयंती.... ।। ६४ ।। For Personal & Private Use Only ERERERERERERERERERERERES कूर्मापुत्र चरित्रं ॥ ९६ ॥ ww.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy