SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्र कूर्मापुत्र चरित्रं चरित्रं 282828282828282828282828 तथापि भगवन् ! पुनस्तस्य समागमो भविष्यति नवेति कथयतु भवान् । ततो यदा पुनरत्र मदागमनं भविष्यति तदा तत्संगमोऽपि भविष्यतीति वदति केवलिनि संजातवैराग्यावात्मकनिष्ठपुत्राय राज्यं दत्वा चारित्र्यमङ्गीचक्रतुः । तदनन्तरं दुष्करन्तपस्तपन्तौ निर्दोषाहारभक्षणसावधानौ नि:संगमनस्कौ त्रिगुप्तिपरायणौ तौ गुरुणा सह विजहृतुः । ग्रामात् ग्रामान्तरं विहरन्तस्ते सर्वेऽपि पुनस्तस्मिन्दुर्गिलाख्य उद्याने समाजग्मुः । तदा यक्षिण्याऽपि निजपते: कुमारस्याल्पायुर्ज्ञात्वा भक्त्या नतकन्धरयागत्य गुरु: पृष्टः । भगवन् केनाप्युपायेनाल्पत्वमायुषो वर्ध्यते नवा ? । तदा केवलज्ञानज्ञातातीतानागतवर्तमानवस्तुस्वरूप: केवली तामाबभाषे । भो महानुभावे ! त्रुटितस्यायुष: संधाने न तीर्थकरा न गणधरा न चक्रवर्तिनो न बलदेवा न वासुदेवा नवान्ये प्रभवन्ति ॥ उक्तञ्च यत:“पिता माता बंधुः स्वजनधनपुत्रादिकमपि, सुरेन्द्रो वा रक्ष:पतिरतिबलं वा मतिरपि । न संधत्ते वीर्यं विपुलतरवीर्यौषधमपि, विवृध्यै विज्ञानं क्षयमुपगतस्यायुष इति” ॥ ७ ॥ एवंविधानि तस्य केवलिनो वचनानि श्रुत्वा विनष्टसर्वस्वेव सा स्वस्वान्ते विषण्णा निजावासमागता, कुमारेण प्रिये ? कथन्ते वदनं विषण्णं परिदृश्यते ? किं केनापि कृतावज्ञासि ? 282828282828282828282828 ॥ १५ ॥ Jain Education For Personal Private Use Only w .jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy