SearchBrowseAboutContactDonate
Page Preview
Page 116
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्र चरित्रं कूर्मापुत्र चरित्रं 282828282828282828282828 वसतोऽपि तस्य केवलज्ञानमुत्पन्नं यत्तच्छुभध्यानेनैव । तथैव भरतचक्रवर्त्यपि मनोहरेऽत्युत्तमेऽन्तःपुरे निवसन् सततशुभध्यानयोगत: कदाचिदरिसाभुवने, इलापुत्रश्व वंशाग्रे नृत्यन् गोचरचर्यां चरतो मुनेदर्शनात्केवलज्ञानमलभत । एवमाषाढभूतिर्गृहस्थोऽपि कदाचिद्भरतचक्रवर्तिनो नाटकं कुर्वन्नरिसाभुवनवेषावसरे शुभध्यानयोगत: केवली संजात: । यत: सर्षपमेरुपर्वतयोरिव द्रव्यभावक्रिययोर्महदन्तरं वर्तते । द्रव्यस्तवाराधयिता खलु अच्युतदेवलोकावधि गच्छति, परं भावस्तवप्रभावाद्धि क्षणान्मोक्षमधि-गच्छति नात्र कश्चित्संदेहः । अस्मिन्मनुष्यक्षेत्रे (सार्धद्वीपद्धये) पञ्चमहाविदेहक्षेत्राणि वर्तन्ते । तत्र प्रतिविदेहं द्वात्रिंशद्वात्रिंशद्धिजया: सन्ति, ते हि विजया: पञ्चगुणिता: सन्त: षष्ठ्युत्तरशत (१६०) संख्याका भवन्ति । तत्राऽपि पञ्चभरतक्षेत्राणि पञ्चैरावतक्षेत्राणि च सन्ति, तेषां मेलने सप्तत्युत्तरशत (१७०) संख्याकानि क्षेत्राणि भवन्ति । तेषु सर्वेषु क्षेत्रेषुत्तमकाले पृथक् तीर्थंकरा विचरन्ति, तेन तीर्थंकरा अपि सप्तत्युत्तरशतमिता: समकाल एव लभन्ते । इदं हि प्रासडिकमुक्तम्, प्रकृतमनुसराम: महाविदेहे मंगलावत्याख्यायां प्रसिद्धविजयायां धनधान्यपरिपूर्णा रत्नसंचया नाम्नी नगर्यासीत् । तत्र निजप्रतापजितसूर्य: चतुष्षष्ठिसहस्त्र (६४०००) स्त्रीस्वामी देवादित्याख्यश्चक्रवर्ती YUXURYNY RYNXXXXXXXXXXX ॥ १०३ ॥ ॥ १०३ ॥ For Person Private Use Only Hw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy