________________
कूर्मापुत्रचरित्रं
॥ १०२ ॥
DERERERERERERERERERERE RE
गते । स कुमारो धात्रीभिरुपलालितः सर्वजनप्रियोऽभवत् । पूर्वजन्मकृताऽन्यबालकाकाशप्रक्षेपणकर्मवशाद् द्विहस्त प्रमाणो वामनरूपेणैव तस्थौ । ततः स युवतिजनमनोहरं रूपं बभार । यौवने किल सर्वेषामपि जन्तूनां प्रायेण विषयविकाराः समुत्पद्यन्ते, परमस्य मनस्तु ते तस्मिन्नपि वयसि तत्त्वविवेकक्षालितत्वान्न मलिनीचक्रुः । ब्रह्माद्या देवा अपि यस्य वशमुपयान्ति तस्यापि मनोभुवो जेताऽयमेव धन्यः । तेन पूर्वजन्मनि निरतिचारं चारित्रमपालि, तस्मादस्य युवावस्थायामपि विषयविरतिरुन्मीलयामास । एकदा तस्य कस्यापि मुनेर्मुखाद् गण्यमानं श्रुतं श्रुत्वा जातिस्मरणमुत्पन्नम् । तेन संसारासारतां बुद्ध्वा, वर्धितशुभभावनाबलाद् क्षपकश्रेणावारुरोह । तत्र च शुभध्यानं कुर्वतस्तस्य ध्यानाग्निना दुष्कर्मेन्धनेषु दग्धेषु सत्सूज्ज्वलं केवलज्ञानं समुत्पन्नम् । अनन्तरं स कूर्मापुत्रो यद्यहं चारित्रं ग्रहीष्यामि तर्हि मद्वियोगसंजातशोकौ पितराववश्यं मरिष्यत एवेति विचार्य केवलज्ञानविशिष्टोऽपि 'पितृस्नेहवशाद्भावचारित्रेणैव सुखेन गृहवासमभजत् । अहो जगति मातापितृचरणभक्तः कूर्मापुत्रसदृशः कः स्याद्यः केवलज्ञानवानपि तौ प्रतिबोधनायाज्ञानीव गृहे वसेत् । गृहे
(१) उपचारेणेत्थमुक्तं, यतः केवलिनि स्नेहाभावो वर्तते ।
For Personal & Private Use Only
REREREREREREDERERERERERI
कूर्मापुत्र
चरित्रं
॥ १०२ ॥
anelibrary.org