SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं ॥ १०० ॥ Jain Educati ERERERERERERERERERERERE: दम्पत्योस्तयो रतिकामयोरिव रतिसुखं भुञ्जानयोः सुखेन कालो निगर्च्छति । एकदा सा निद्रानिमीलितनयना स्वप्नेऽत्याश्चर्यकरं मनोहरं देवविमानं दृष्टवती । प्रातरुत्थाय सा स्वामिनेऽकथयद्यन्मया देवभवनं दृष्टमिति । तच्छ्रुत्वा हर्षितो राजा यथामति तत्फलमकथयत् । भो राज्ञि ! सुस्वप्नेनैतेन त्वमितः सप्तदिनाधिके नवमे मासि सम्पूर्णे जननेत्रानन्दकरं सर्वलक्षणोपेतं पुत्रं जनयिष्यसि । साऽपि स्वामिवचनं श्रुत्वा जातहर्षोल्लासा स्वावासमलञ्चकार । तदनन्तरं पुण्यशालिनो दुर्लभकुमारस्य जीवो देवायुः क्षपयित्वा तस्या उदरे प्रविष्टः । रत्नै रत्नाकर इव, दुर्लभाशापन्नसत्वा सा पुण्यप्रभाविगर्भप्रभावाच्छास्त्रश्रवणरूपं दोहदमाचकाङ्क्षे । राजाऽपि तन्मनोरथपूत्यर्थं नगरात् षड्दर्शनज्ञानिनः पण्डितानाकारयामास । तेऽपि राजाज्ञया जातोल्लासा: स्नानादिकं विधाय करधृतपुस्तका राजसभायामागत्य दत्ताशीर्वादा योग्यासनमुपविश्य धर्मं वर्णयामासुः । तत्र कुत्रचिद्धिंसादिकं श्रुत्वा जिनधर्मलीना सा प्रत्युत खेदमुपगतवती । यत उक्तञ्च, यथा-विविधप्रकारं दानं वेदाभ्यासः सततं मौनं देवताध्यानं सर्वमेतद्दयाधर्मं विना निष्फलम् । इति ध्यात्वा दयाधर्मप्रपालकान् जिनागममर्मज्ञान् पंडितानाचार्यानाकार्य शुद्धधर्मं पप्रच्छ । तेऽप्याचार्यवर्या For Personal & Private Use Only REDEREREREREREDERERERERY कूर्मात्र चरित्रं ॥ १०० ॥ jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy