Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 62
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 कीदृशं साहसमस्ति ? मुखे काष्ण्यमपि नास्ति, यत: सन्तो न यान्ति वैवर्ण्य-मापत्सु पतिता अपि । दग्धोऽपि वह्निना शंखः, शुभ्रत्वं नैव मुञ्चति ॥११६॥ तथा-विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः । यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम् ॥११७।। अथ राज्ञोक्तंधृष्टो दुष्टश्च पापिष्टो, निर्लज्जो निर्दय: कुधी: । निःशूकश्च भवेत्क्रूर, एतच्चौरस्य लक्षणं ॥११८॥ अत: सभायां धाष्येन वदन्नयमेव नूनं चौरो ज्ञायते । तत: कुपितो नृपस्तलारक्षमाकार्यादिदेश, भो तलारक्ष ! विलम्बं विनैनं पापधनं चतुष्पथेषु विडम्बनापूर्वकं भ्रामयित्वा शूलायामारोपय, एवं चात्रैव मिलितं तस्य पापफलं लोकानामपि दर्शय । यत: दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥११९।। तलारक्षेणोक्तं हे स्वामिन् भवत आदेश: प्रमाणम् । अथ रूपसेनकुमारेण राजानं प्रति विज्ञप्तं, हे राजन्नथैतासां वेश्यानामेषां चारक्षकाणामभयदानं दीयताम् ! ततो राज्ञा मुक्तास्ते सर्वेऽपि प्रमुदिता नृपं नमस्कृत्य, स्वस्वस्थानके गताः । नगरमध्येऽपि सर्वेषां हर्षः समुत्पन्न: । पौराश्च 1282828282828282828282828 ॥ ४९ ॥ Jain Education For Personal Private Use Only Ww.jainelibrary.org

Loading...

Page Navigation
1 ... 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124