________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282828
कीदृशं साहसमस्ति ? मुखे काष्ण्यमपि नास्ति, यत:
सन्तो न यान्ति वैवर्ण्य-मापत्सु पतिता अपि । दग्धोऽपि वह्निना शंखः, शुभ्रत्वं नैव मुञ्चति ॥११६॥ तथा-विपदि धैर्यमथाभ्युदये क्षमा, सदसि वाक्पटुता युधि विक्रमः ।
यशसि चाभिरुचिर्व्यसनं श्रुतौ, प्रकृतिसिद्धमिदं हि महात्मनाम् ॥११७।। अथ राज्ञोक्तंधृष्टो दुष्टश्च पापिष्टो, निर्लज्जो निर्दय: कुधी: । निःशूकश्च भवेत्क्रूर, एतच्चौरस्य लक्षणं ॥११८॥
अत: सभायां धाष्येन वदन्नयमेव नूनं चौरो ज्ञायते । तत: कुपितो नृपस्तलारक्षमाकार्यादिदेश, भो तलारक्ष ! विलम्बं विनैनं पापधनं चतुष्पथेषु विडम्बनापूर्वकं भ्रामयित्वा शूलायामारोपय, एवं चात्रैव मिलितं तस्य पापफलं लोकानामपि दर्शय । यत:
दुष्टानां दुर्जनानां च, पापिनां क्रूरकर्मणाम् । अनाचारप्रवृत्तानां, पापं फलति तद्भवे ॥११९।।
तलारक्षेणोक्तं हे स्वामिन् भवत आदेश: प्रमाणम् । अथ रूपसेनकुमारेण राजानं प्रति विज्ञप्तं, हे राजन्नथैतासां वेश्यानामेषां चारक्षकाणामभयदानं दीयताम् ! ततो राज्ञा मुक्तास्ते सर्वेऽपि प्रमुदिता नृपं नमस्कृत्य, स्वस्वस्थानके गताः । नगरमध्येऽपि सर्वेषां हर्षः समुत्पन्न: । पौराश्च
1282828282828282828282828
॥
४९
॥
Jain Education
For Personal Private Use Only
Ww.jainelibrary.org