Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
282828282828282828282829
अपसेत्ववटे नीरं, चालिन्यां सूक्ष्मपिष्टकम् । स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ॥१५४॥
तेनैव हेतुना त्वामहं दृढं कथयन्नस्मि । मालिन्योक्तं हे बान्धव त्वमेवं पुन: पुन: कस्माद्वदसि ? सर्वा अपि स्त्रियस्तुल्या न स्युः, अतस्त्वं मे निःशंकं कथय ? तदा कुमार: प्राह हे भगिनि शृणु । अहं केनाप्युपायेन मर्कटो भविष्यामि, ततश्च त्वया मर्कटरूपं मामादायैकदा राजकुमार्या आवासे गन्तव्यं । ततो यदा सा कुमारी मर्कटरूपं मां क्रीडार्थं मार्गयेत्तदा त्वया सहसाहं नार्पणीयः, परं यद्यत्याग्रहं कुर्यात्तदा त्वयाहमर्पणीयः, यथेच्छं मूल्यद्रव्यं च गृहणीयं, एवं च कृते तवापि लाभो ममापि च कार्यसिद्धिर्भविष्यति, तत् श्रुत्वा तयोक्तं हे भ्रातस्त्वदुक्तं मम प्रमाणमेव, अहमपि तथैव करिष्यामि । तत: कुमारो मर्कटरूपो जात:, तं मर्कटं च लात्वा सा मालिनी स्वगृहे समायाता. तत: सा तं मर्कटं कपर्दिकाघुघुरिकावस्त्रादिभिरलंकृत्य तेन सह कनकवत्याः प्रासादे गता । तत्र पुष्पादिप्राभृतं विधाय प्रणामं कुर्वन्ती सा मालिनी कुमार्या पृष्टा, हे सखि एष मर्कटस्तु सुन्दरो दृश्यमानोऽस्ति, तस्येनं क्रीडाविनोदार्थ मह्यं समर्पय ! तत् श्रुत्वा मालिनी प्राह, हे स्वामिनि सर्वमपि त्वदायत्तमेवास्ति, परमयं मर्कटस्तु मम वाटिकाया
2U828282828282828AVAA
For Personal Private Use Only
Loading... Page Navigation 1 ... 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124