Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्रचरित्रं
॥
॥
Jain Educatio
AGREREREREREDERERERERERE:
केवली समवसृतः, तत्रोद्याने काचिद्भद्रमुखी नाम्नी यक्षिणी निरन्तरं चिरान्यवसत् । तया शाल्मवृक्षाणां वटवृक्षाणाञ्चाध: पाताले भव्यभवने निवासस्थानमकारिषत । सा यक्षिणी केवलज्ञानविभूषितं सर्वसंशयोच्छेत्तारं सुलोचनं नाम गुरुं दृष्ट्वा नत्वा च भो पूज्याहं पूर्वभवे मानवत नाम्नी मानुषी सुलोचनाख्यस्य वेलन्धरदेवस्य प्रियपत्न्यभवम् आयुषः क्षये तत्रतश्च्युत्वाऽस्मिन्वने यक्षिणीरूपाहमवतीर्णाऽस्मि, परं स मे वल्लभः कुत्रावर्तीण इति न पारयामि [ जानामि ] तद्भवान् कृपां विधाय कथयत्विति पप्रच्छ । तच्छ्रुत्वा सुलोचनाख्यः केवली प्रभुः स एव ते वल्लभो दुर्लभोऽस्मिन्नगरे द्रोणस्य राज्ञः पुत्रत्वेनोत्पन्नोऽस्तीति मधुरया वाण्या कथयामास ।
तच्छ्रुत्वा मानुषं देहमाश्रित्य यक्षिणी ततः । कुमाराभिमुखं गत्वा प्रोवाच मधुरं वचः ||२|| क्षिप्त्वाऽर्भकान् ते गगने कथन्नु विनोदमाप्नोति चिराय चेतः । कुतुहलञ्चेद्यदि दर्शने वाऽनुगम्यतां सार्धमहो मया वा ॥३॥
तदनन्तरमसौ कुमारः कुतूहलाक्रान्तमनाश्चेतोभूप्रियानुकारिण्या यक्षिण्या सार्धं गच्छन् शाल्मवटवृक्षाणामधस्तनभुवि पाताले देवभवनमिव यक्षभवनमद्राक्षीत् । तदेव विशिनष्टि -
For Personal & Private Use Only
REDEREREREREDEREREREDERE:
कूर्मापुत्र
चरित्रं
।। ९२ ।।
jainelibrary.org
Loading... Page Navigation 1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124