SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ कूर्मापुत्रचरित्रं ॥ ॥ Jain Educatio AGREREREREREDERERERERERE: केवली समवसृतः, तत्रोद्याने काचिद्भद्रमुखी नाम्नी यक्षिणी निरन्तरं चिरान्यवसत् । तया शाल्मवृक्षाणां वटवृक्षाणाञ्चाध: पाताले भव्यभवने निवासस्थानमकारिषत । सा यक्षिणी केवलज्ञानविभूषितं सर्वसंशयोच्छेत्तारं सुलोचनं नाम गुरुं दृष्ट्वा नत्वा च भो पूज्याहं पूर्वभवे मानवत नाम्नी मानुषी सुलोचनाख्यस्य वेलन्धरदेवस्य प्रियपत्न्यभवम् आयुषः क्षये तत्रतश्च्युत्वाऽस्मिन्वने यक्षिणीरूपाहमवतीर्णाऽस्मि, परं स मे वल्लभः कुत्रावर्तीण इति न पारयामि [ जानामि ] तद्भवान् कृपां विधाय कथयत्विति पप्रच्छ । तच्छ्रुत्वा सुलोचनाख्यः केवली प्रभुः स एव ते वल्लभो दुर्लभोऽस्मिन्नगरे द्रोणस्य राज्ञः पुत्रत्वेनोत्पन्नोऽस्तीति मधुरया वाण्या कथयामास । तच्छ्रुत्वा मानुषं देहमाश्रित्य यक्षिणी ततः । कुमाराभिमुखं गत्वा प्रोवाच मधुरं वचः ||२|| क्षिप्त्वाऽर्भकान् ते गगने कथन्नु विनोदमाप्नोति चिराय चेतः । कुतुहलञ्चेद्यदि दर्शने वाऽनुगम्यतां सार्धमहो मया वा ॥३॥ तदनन्तरमसौ कुमारः कुतूहलाक्रान्तमनाश्चेतोभूप्रियानुकारिण्या यक्षिण्या सार्धं गच्छन् शाल्मवटवृक्षाणामधस्तनभुवि पाताले देवभवनमिव यक्षभवनमद्राक्षीत् । तदेव विशिनष्टि - For Personal & Private Use Only REDEREREREREDEREREREDERE: कूर्मापुत्र चरित्रं ।। ९२ ।। jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy