Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 106
________________ कूर्मापुत्रचरित्रं ।। ९३ ।। Jain Educa RERERERERERERERERERERERE रत्नभाभासुरैस्तम्भै र्व्याप्तमध्यं मणिमयै- स्तोरणैरञ्जितं द्वारि चित्रितं चित्रकैरपि ॥ ४ ॥ स्तम्भान्तश्चित्रिताभिश्च पुत्तलिकाभिरागतान् । जनान् कामवशे कुर्वत्सुन्दरं सौधमद्भुतम् ||५|| दृष्ट्वा किमिदमिन्द्रजालं वा स्वप्नं वा सत्यं वेति मोहमुपगतं कुमारं सा यक्षिणी पर्यङ्कमुपविश्य विज्ञापयामास यथा - स्वामिन् ! सौम्यबुद्धे ! बहोः कालादद्य मे चातक्या मेघदर्शनमिव भवद्दर्शनं संजातमस्ति । सुरभिण्यस्मिन्वने देवभवने मत्कार्यसाधनाय भवानानीतोऽस्ति अद्यैव मे मनोरथकल्पद्रुमः सफलो जातः, येन पुण्यप्राग्भारोदयेन भवन्मेलनं सञ्जातम् । तदनन्तरमेवंविधानि राजीवनेत्राया वचांसि श्रुत्वा जातपूर्वभवस्नेहविकासस्य कुमारस्याहो ममेयं क्वचिद्दृष्टा परिचिता वा संभाव्यत इति मनसि विमृशतस्तस्य जातिस्मरणमुत्पन्नम् । तेन पूर्वभववृत्तान्तोऽखिलोऽवेदि प्रियायै कथितश्च । ततः सा देवी तच्छरीरादशुभानि पुन्द्रलानि दूरीकृत्य शुभानि पुन्द्रलानि निक्षिप्य च लज्जादिकं विहाय सुखेन विषयोपभोगमुपभुक्तवती । स्थानाङ्गसूत्रे देवानां भोगो यथा (१) कश्चिद्देवो देव्या सह (२) कश्चिद्देवश्छव्या सह (३) कश्चिच्छवी देव्या सह (४) कश्चिच्छवी छव्या सहेति चतुर्विधं कामभोगमुपभुङ्क्ते ॥ For Personal & Private Use Only PERERERERERERERERERERERE: कूर्मापुत्र चरित्रं 11 93 11 ww.jainelibrary.org

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124