Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
कूर्मापुत्र
चरित्रं
कूर्मापुत्र
चरित्रं
282828282828282828282828
[१. औदारीकशरीरा मनुष्यास्तिर्यञ्चश्च छवीशब्देनाभिधीयन्ते. २. अत्र देवानां भोगेनानुमीयते यथा ते ह्यौदारिकशरीरं प्रविश्य विकुळ वा विषयसुखमास्वादन्त इति]
इतस्तस्य कुमारस्य पितरौ पुत्रविरहविधुरौ सर्वासु दिक्षु गवेष्य कुत्राप्यलब्धवन्तौ दुःखिनावभूताम् । अथवानल्पशक्तिदेवमुषितं स्वल्पशक्तिर्मानुषः कथं लभेत, तदनन्तरं तावेकदा कञ्चित् केवलिनं पप्रच्छतुः, भगवन्नस्मत्सूनुः कुत्र गतो वा केन गृहीत इति कृपालुना भगवता कथयितव्यम् । तदा तं काचित् व्यन्तरदेवी कदाचिज्जहारेति वदति केवलिनि विस्मयाक्रान्तौ तौ पञ्चचत्वारिंशल्लक्षयोजन- विस्तारिदुर्गन्धवत्यस्मिन्मनुष्यलोके जिनेश्वराणां पञ्चकल्याणकस्थानात् वा महर्षेस्तपः प्रभावात् वा पूर्वभवस्नेहादृते देवा नभसो नावतरन्तीति जिनागमेषु श्रूयते तर्हि मानुषमस्मत्पुत्रं सा व्यन्तरदेवी कथं हृतवतीति कथयामासतुः, तच्छ्रत्वा स केवली प्रभुस्तयोः व्यन्तरीकुमारयोः पूर्वजन्मवृत्तान्तमुदाजहार । पुनरपि तौ पप्रच्छतुः भगवन् ! कर्मपरिपाका ह्यतीव बलवन्त: सन्ति, तेन मानुषैरसंभावितमपि संभवति । उक्तञ्च यथा
अवश्यभव्येष्वनवग्रहग्रहा, यया दिशा धावति वेधसः स्पृहा । तृणेन वात्येव तयानुगम्यते, जनस्य चित्तेन भृशावशात्मना ॥ ६ ॥
282828282828RRURER8282%
Jnin Educatie
For Personal Private Use Only
(
MUw.jainelibrary.org
Loading... Page Navigation 1 ... 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124