Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 103
________________ - कूर्मापुत्रचरित्रं ॥ श्रीकूर्मापुत्रचरित्रं प्रारभ्यते ।। कूर्मापुत्र चरित्रं 282828RXAXXRXARX282828 सुरासुरनतं देवं, वर्धमानं जिनेश्वरम् । नत्वा संक्षेपतो वच्मि, कूर्मापुत्रचरित्रकम् ॥१॥ अस्मिन्भरतक्षेत्रे राजगृहाख्यं नगरमस्ति । तत्र समग्रा जना न्यायैकनिष्ठा अभूवन् । एकदा तत्रत्ये गुणराशाविव गुणशालाख्ये चैत्ये श्रीवर्धमानस्वामी समवसृतः, तस्मिन् समये देवैर्मणिसुवर्ण-रुप्यादिखचितप्रकारैः पापकर्मक्षयकरं समवसरणं रचितम् । तत्र स्थित: स्वर्णकान्ति: समुद्रगम्भीर: भगवान् श्रीमहावीरस्वामी दानादिचतुर्भेदविशिष्टं मनोरमं धर्मोपदेशं दातुमारेभे, यथा धर्मस्य दानशीलतपो भावाश्चेति चत्वारो भेदा: वर्तन्ते, तेष्वगण्यमहिमा भावधर्मो विशिष्यते । स हि भवसागरतरणे नौरूपः, स्वर्गमोक्षनगरयोर्गमनमार्गः भव्यजनचिन्तितदाने चिन्तामणिसमानश्च विद्यते, तत्त्वज्ञः कूर्मापुत्रो द्रव्यचारित्रमगृहीत्वाऽपि गृहस्थ: सन् भावधर्मप्रभावेण केवलज्ञानमलभत । अस्मिन् समय इन्द्रभूतिनामा गणधरो भगवतो महावीरस्य पट्टशिष्यः गौतमगोत्रोत्पन्नश्चतुरस्त्र 282828282828282828282828 ॥ १० ॥ JainEducafa For Personal & Private Use Only Miw.jainelibrary.org

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124