Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
।। ८९ ।।
Jain Educati
RERERERERERERERERERERERE
,
अथैकदा तस्य विषमज्वरव्याधिरुत्पन्ना, बहुवैद्यैरुपचारः कृतः परं तस्य गुणो न जातः, इत एको वैदेशिको महावैद्यस्त्रिकालवित्तस्याग्रे समायातः, तेन राजानं विलोक्य कथितं हे राजन् ! तवायं देवकृतो व्याधिरुत्पन्नोऽस्ति, ततस्तस्मै देवाय बलिदानं दत्त्वा तन्मांसशेषां त्वं भक्षय । येन तव ज्वरो यास्यति, अन्यथा नैव यास्यति । तत् श्रुत्वा राज्ञा प्रोक्तं हे वैद्याहं प्राणान्तेऽपि मम नियमभङ्गं नैव करिष्यामि । इति तन्निश्चयं ज्ञात्वा स देवः प्रत्यक्षीभूय प्रोवाच । हे राजन्नियमपालने तवेन्द्रेण देवसभायां प्रशंसा कृतासीत् । मया च तद्विषया तवेयं परीक्षा कृता, परं त्वं नियमादचलनाद्धन्योऽसि, परमथ पक्षान्ते तव नागान्मरणमस्तीत्युक्त्वा स देवः स्वस्थाने गतः । अथोक्तदिने गजारूढो गच्छन् स तेन पातितो मृत्वा सद्ध्यानाद्देवो जातः । एवं सर्वैरपि भव्यै रूपसेनवत्स्वनियमाः पालनीयाः, येनात्र परत्र च सुखमेव स्यात् । यतः - ये पालयन्ति नियमान् परिपूर्णान् रूपसेननृपतिरिव ।
ते सुखलक्ष्मीभाजः, पदे पदे स्युर्जनश्लाघ्या: ॥ १८८ ॥
विशालराजसूरीश-सुधाभूषणसद्गुरोः । शिष्येण जिनसूरेण, सुकृताय कृता कथा ।। १८९।।
॥ इति नियमपालने मन्मथनृपपुत्र श्रीरूपसेननृपतिचरित्रं समाप्तम् ।।
For Personal & Private Use Only
RERERERERERERERERERERERY
श्रीरूपसेन
चरित्रं
॥। ८९ ।।
jainelibrary.org
Loading... Page Navigation 1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124