Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 95
________________ श्रीरूपसेनचरित्रं SRX RX RX REDERERERERERERE RE प्रतिश्रुतमस्ति तदेवाहमप्यर्थयामि यतः सतां वचनमन्यथा न भवति, तत् श्रुत्वा मन्त्रिणा प्रोक्तं हे योगीन्द्र ! यूयं तूत्तमा: परोपकारिणो गुणज्ञा गुणवन्तश्च स्थ, यतः - न बूते परदूषणं परगुणं वक्त्यल्पमप्यन्वहं सन्तोषं वहते परर्द्धिषु पराबाधासु धत्ते शुचम् । स्वश्लाघां न करोति नोज्झति नयं नौचित्यमुल्लङ्घय-त्युक्तोऽप्यप्रियमक्षमां न रचयत्येतच्चरित्रं सताम् ॥ १७३ ॥ तेन हे योगीन्द्र भवद्गुणैरेवास्माभिर्भवतो जात्यादि सर्वमपि शुभं ज्ञातं यतःआकारैरिंगितैर्गत्या, चेष्टया भाषणेन च । नेत्रवक्त्रविकारैश्च, लक्ष्यतेऽन्तर्गतं मनः ॥ १७४॥ तथापि हे योगीन्द्र कृपां विधाय राज्ञो मनः शान्त्यर्थं यूयं सत्यं स्वजातिकुलादि कथयत । तत् श्रुत्वा स योगीन्द्रवेशधारी राजकुमारः प्राह हे मन्त्रीन्द्र तव मधुरवचनैः सन्तुष्टोऽहं मम सत्यं वृत्तान्तं तवाग्रे कथयिष्यामि । यतः - न तथा शशी न सलिलं, न चन्दनं नापि शीतलच्छाया । आह्लादयन्ति पुरुषं, यथा हि मधुराक्षरा वाणी ॥ १७५ ॥ ततः कुमारेण मन्त्रिणोऽग्रे यथास्थितः स्ववृत्तान्तः प्रोक्तो यथा - मन्मथनृपपुत्रो रूपसेनाभिधोऽहं For Personal & Private Use Only FRYRYDEREREREDERERERERERE श्रीरूपसेन चरित्रं ।। ८२ ।। ainelibrary.org

Loading...

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124