Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 96
________________ श्रीरूपसेनचरित्रं ॥ Jain Educatio RERERERERERERERERERERERE कुमारोऽस्मि । तत् श्रुत्वा नृपमन्त्रिप्रभृतिसर्वोऽपि परिवारः परमानन्दं प्राप्तवान् । तत्कालं राज्ञा दैवज्ञा आकारिताः, शुभं लग्नं च गृहीत्वा तेन सह सा कनकवती पुत्री राज्ञा समहोत्सवं परिणायिता, हस्तमोचनावसरे च राज्ञा करितुरगवस्त्रद्रव्यादि कुमाराय दत्तं । ततो रूपसेनकुमारः कियद्दनानि तंत्र स्थित्वा सपरिवारः कनकवत्या युतः स्वनगरं प्रति प्रस्थितः, कियद्भिर्दिनैः शुभशकुनैः प्रेरित: स राजगृहनगरे प्राप्तः, स्वमातापित्रोश्च मिलितः, तावपि पुत्रं कुशलेन समागतं दृष्ट्वातीवहृष्टौ, पौराश्च राज्ञो वर्धापनिकां यच्छन्ति स्म एवं राजगृहे नगरे महामहोत्सवः संजात:, राज्ञा च दीनयाचकेभ्यो बहूनि दानानि दत्तानि । एवं पद्मावतीसहायतो जैनाचार्यकथनानुसारेण स रूपसेनकुमारः स्वकलत्रयुतः समृद्ध्या सह द्वादशवर्षैस्तत्रागतः । यतः - अमोघा वासरे विद्यु-दमोघं निशिगर्जितम् । अमोघा देवतावाणी, अमोघं मुनिभाषितम् ॥१७६॥ इतो वनमध्ये श्रीजैनाचार्याः समवसृताः, तदा मन्मथराजातीवहृष्टः सन् परिवारयुतस्तेषां वन्दनार्थं वनमध्ये गतः । गुरुभिरप्युपदेशो दत्तः, यथा - दुर्लभं मानुषं जन्म, दुर्लभं श्रावकं कुलम् । दुर्लभा धर्मसामग्री, दुर्लभा धर्मवासना ||१७७ ॥ For Personal & Private Use Only REDERERERERERERERERERERE श्रीरूपसेन चरित्रं ॥ ८३ ॥ jainelibrary.org

Loading...

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124