Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 98
________________ श्रीरूपसेनचरित्रं Jain Educa REREREREREREREREREDERERE श्रीमन्मथराज्ञो हृदयेऽकस्मात् शूलमुत्पन्नं तेन च शुभभावनां भावयन् तीर्थध्यानं च कुर्वन् तत्रैव सिद्धक्षेत्रे कालं कृत्वा सौधर्मदेवलोके स समुत्पन्नः । ततो रूपसेनकुमारादिपरिवारस्तस्योत्तरक्रियां विधाय ततः पश्चाद्बलित्वा सङ्घयुतः स्वनगरे प्राप्तः । तत्र च शुभे मुहूर्ते प्रधानादिभि: स रूपसेनकुमारो राज्येऽभिषिक्तः, अनेके च भूपालास्तस्य तुरंगमादीनां प्राभृतं चक्रुः । एवं स रूपसेनराजा न्यायेन स्वप्रजाः पालयति स्म । अथैकदा तत्र लीलावने श्रीमन्तो जैनगुरवः समवसृताः, तदा हृष्टो राजा सपरिवारस्तान् वन्दितुं तत्र ययौ । गुरुभिश्च देशना दत्ता, यथा भवकोटीदुः प्रापा-मवाप्य नृपत्वादिसकलसामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ॥ १८१ ॥ देशनान्ते राज्ञा श्रीगुरवः पृष्टाः । हे भगवन् ! केन कर्मणा मम द्वादशवर्षाणि यावन्मातापित्रोर्वियोगो जात: ? केन कर्मणा चापूर्वाणि चत्वारि दिव्यवस्तूनि मया प्राप्तानि ? केन कर्मणा च परदेशेऽपि मम धनमहत्त्वादिप्राप्तिरभूत् ? केन कर्मणा चैवं दुःखसुखे मया प्राप्ते ? तत्सर्वं मयि कृपां विधाय यूयं कथयत । तदा तैर्ज्ञानिभिर्गुरुभिः प्रोक्तं हे राजन् ! त्वं तव पूर्वभवं शृणु - पुरा तिलकपुरे सुन्दराभिधः कौटुम्बिकस्त्वमासीः, तस्य मारुताभिधाना च For Personal & Private Use Only REREREREREREREREAGAGAGALI श्रीरूपसेन चरित्रं ।। ८५ wjainelibrary.org

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124