Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
..
Jain Educati
AGAGAGAGREREREREREREREREI
भार्या बभूव, तौ पुत्रपौत्रादियुतौ कृषिकर्म कुरुतः स्म । एकदा तव क्षेत्रसीमायां सहकारवृक्षतले कश्चित् सिद्धनरः समागत्य स्थितः, त्वया च स मासं यावत् सेवितः, तदा सन्तुष्टेन तेन तुभ्यं रूपपरावर्तिनी विद्या समर्पिता । तद्विद्याबलेन च त्वं सर्वाणि कार्याणि कृतवान्, दीनादीनां च त्वया भूरि दानं दत्तं, अन्यदा तव क्षेत्रसमीपवने जैनमुनयः प्राप्ताः, तदा त्वमपि सपरिवारो भद्रकपरिणामस्तेषां समीपे धर्मं श्रोतुं समुपविष्टः । गुरुभिरपि तुभ्यं दयादानादिरूपो धर्मोपदेशो दत्तः कथितं च हे भद्र ! क्षेत्राद्यारम्भकरणादिह पापं भवति, त्वयोक्तं हे स्वामिन् मम बहुकुटुम्बपशुगोकुलादिपरिवारोऽस्ति । तेन च क्षेत्रं विना मम निर्वाहः कथं स्यात् ? गुरुभिरुक्तं तथापि हे भद्र त्वं कमपि नियमं गृहाण, येन तव बहु फलं स्यात्, यतः स्तोकोऽपि नियमो येन पाल्यते स परभवे बहुसमृद्धियुतो भवति । तत् श्रुत्वा त्वया प्रोक्तं, हे स्वामिन् तर्हि (१) अतः परमहं सर्वदा जिनदर्शनं विधाय जिनमन्दिरे स्वस्तिकं करिष्यामि । (२) यथाशक्ति सुपात्रे दानं दास्यामि, (३) महज्जीवानां घातं न करिष्यामि, (४) रात्रौ च भोजनं न विधास्ये । तदा गुरुभिरपि तुभ्यं ते नियमा दत्ताः कथितं च हे भद्र एतेषां नियमानां पालनेन तवात्र
For Personal & Private Use Only
REDERERERERERERERERERERY
श्रीरूपसेन
चरित्र
11
11
jainelibrary.org
Loading... Page Navigation 1 ... 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124