SearchBrowseAboutContactDonate
Page Preview
Page 98
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं Jain Educa REREREREREREREREREDERERE श्रीमन्मथराज्ञो हृदयेऽकस्मात् शूलमुत्पन्नं तेन च शुभभावनां भावयन् तीर्थध्यानं च कुर्वन् तत्रैव सिद्धक्षेत्रे कालं कृत्वा सौधर्मदेवलोके स समुत्पन्नः । ततो रूपसेनकुमारादिपरिवारस्तस्योत्तरक्रियां विधाय ततः पश्चाद्बलित्वा सङ्घयुतः स्वनगरे प्राप्तः । तत्र च शुभे मुहूर्ते प्रधानादिभि: स रूपसेनकुमारो राज्येऽभिषिक्तः, अनेके च भूपालास्तस्य तुरंगमादीनां प्राभृतं चक्रुः । एवं स रूपसेनराजा न्यायेन स्वप्रजाः पालयति स्म । अथैकदा तत्र लीलावने श्रीमन्तो जैनगुरवः समवसृताः, तदा हृष्टो राजा सपरिवारस्तान् वन्दितुं तत्र ययौ । गुरुभिश्च देशना दत्ता, यथा भवकोटीदुः प्रापा-मवाप्य नृपत्वादिसकलसामग्रीम् । भवजलधियानपात्रे, धर्मे यत्नः सदा कार्यः ॥ १८१ ॥ देशनान्ते राज्ञा श्रीगुरवः पृष्टाः । हे भगवन् ! केन कर्मणा मम द्वादशवर्षाणि यावन्मातापित्रोर्वियोगो जात: ? केन कर्मणा चापूर्वाणि चत्वारि दिव्यवस्तूनि मया प्राप्तानि ? केन कर्मणा च परदेशेऽपि मम धनमहत्त्वादिप्राप्तिरभूत् ? केन कर्मणा चैवं दुःखसुखे मया प्राप्ते ? तत्सर्वं मयि कृपां विधाय यूयं कथयत । तदा तैर्ज्ञानिभिर्गुरुभिः प्रोक्तं हे राजन् ! त्वं तव पूर्वभवं शृणु - पुरा तिलकपुरे सुन्दराभिधः कौटुम्बिकस्त्वमासीः, तस्य मारुताभिधाना च For Personal & Private Use Only REREREREREREREREAGAGAGALI श्रीरूपसेन चरित्रं ।। ८५ wjainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy