SearchBrowseAboutContactDonate
Page Preview
Page 97
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282888888888 किं च हे राजन् संसारसमुद्रतारिणी श्रीशत्रुञ्जयतीर्थयात्रापि दुर्लभास्ति । यत:एकैकस्मिन् पदे दत्ते शत्रुञ्जयगिरिं प्रति । भवकोटीसहस्राणां, पातकानि प्रयान्ति हि ॥१७८॥ श्री तीर्थपान्थरजसा विरजीभवन्ति, तीर्थेषु बम्भमणतो न भवे भ्रमन्ति । तीर्थव्ययादिह नराः स्थिरसम्पदः स्युः-स्तीर्थार्चनादिह पुनर्जगदर्चनीयाः ॥१७९॥ सदा शुभध्यानमसारलक्ष्म्या:, फलं चतुर्धा सुकृताप्तिरुच्चैः । तीर्थोन्नतिस्तीर्थकृतां पदाप्ति-र्गुणा हि यात्राकरणे स्युरेते ॥१८०॥ इत्यादि गुरुपदेशं श्रुत्वा सत्त्वाधिको राजा हृष्ट: सन् कथयामास, हे भगवन्नत: परं शत्रुञ्जयतीर्थयात्रां कृत्त्वैवाहं दुग्धदध्यादि भोक्ष्ये, इत्यभिग्रहं गृहीत्वा स गुरुन् वन्दित्वा गृहे गतः । तत: स मन्मथराजा परिवारेण सह महा तीर्थयात्रायै चलित:, स्थाने स्थाने च जिनपूजादिमहोत्सवं कुर्वन् क्रमेण स शत्रुञ्जयगिरौ प्राप्तः, तत्र परिवारयुतो महताडम्बरेण तं तीर्थाधिराजं त्रि:प्रदक्षिणीकृत्य श्रीयुगादिजिनमन्दिरे स्नात्रादिपूर्वकमष्टाहिनकामहोत्सवं कृतवान् । ततस्तेन तत्र भोजनवस्त्रादिदानपुरस्सरं श्री चतुर्विधसङ्घस्य भक्तिर्महताडम्बरेण कृता । इतस्तत्र 828282828282828282828282 Jain Educat For Personal Private Use Only nw.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy