Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
11
Jain Educ
ERERERERERERERERERERERE!
किंच भो मन्त्रिन् राजा तु स एव कथ्यते यः कस्यापि न्यायमन्यायं वा वेत्ति, तत्फलं च दर्शयति, तस्य पुण्यमपि च स्यात् उक्तं च
प्रजानां धर्मषड्भागो, राज्ञो भवति रक्षितुः । अधर्मस्यापि षड्भागो, जायते यो न रक्षति ॥ १६५॥ अपरं च - दुष्टस्य दण्डः सुजनस्य पूजा, न्यायेन कोशस्य च संप्रवृद्धिः ।
अपक्षपातो विषयेषु रक्षा, पञ्चैव धर्माः कथिता नृपाणाम् ॥१६६॥ राजलक्षणानि दुर्लभानि पापानि कुर्वन्तं राजानं चेन्मंत्री न निषेधयति तदा मन्त्रिणोऽपि
दोषः स्यात् ।
नृपेण हि कृतं पापं, मन्त्रिणोऽपि लगेद्ध्रुवम् । गुरोः शिष्यकृतं पापं, पत्नीपापं च भर्तरि ॥१६६॥ तत् श्रुत्वा मन्त्रिणा पृष्टं हे योगीन्द्र राज्ञा तत्किं पापं कृतमस्ति ? योगिनोक्तं हे मन्त्रिन् शृणु ! ये योगिनः पृथक्पृथग्देशेषु भ्रमन्तो भिक्षया निजाजीविकां कुर्वन्ति, कस्यापि च निन्दां न कुर्वन्ति, एवंविधा अप्येते योगिनो राज्ञा चौरा इव कथमत्र रक्षिताः सन्ति ? एवंविधश्च राज्ञोऽन्यायः कथं सोढुं शक्यते ? अतस्त्वं राज्ञः पार्श्वे गत्वा तान् विमोचय ! ततो मन्त्री
For Personal & Private Use Only
RERERERERERERERERERERERE
श्रीरूपसेन
चरित्रं
•
॥ ७५
ww.jainelibrary.org
Loading... Page Navigation 1 ... 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124