Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 87
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं RXXXXXXXXXXXXXXXXXXXXXXX युक्तं न, यत:- यद्यपि मृगपतिपुरतो, विरसं रसतीह मत्तगोमायुः । तदपि न कुप्यति सिंहो, विसदृशपुरुषेषु कः कोपः ॥१६३।। हे स्वामिंस्त्वं राजासि, एष च योगी वर्तते, राजोक्तं तर्हि हे मन्त्रिस्त्वं तत्र गत्वा तस्य योगिन: स्वरूपं विलोकय ! ततो मंत्री स्तोकपरिवारयुतस्तत्र गतः, मन्त्रिणमागच्छन्तं विलोक्य स योगीन्द्रोऽपि बहुमानपूर्वकमभ्युत्थानादिना तस्य प्रतिपत्तिं चकार । तदा मन्त्रिणोक्तं हे योगीन्द्र ! यूयं सर्वेषामपि पूज्या: स्थ । ततो मयि कृपां विधाय युष्मत्स्थाने उपविशत । योगिनोक्तं हे मन्त्रीश ! यूयमपि राजमान्यत्वात्सत्कारार्हा एव स्थ. उक्तं च राजमान्यं धनाढ्यं च, विद्यावन्तं तपस्विनम् । रणे शूरं च दातारं, कनिष्ठमपि ज्येष्ठयेत् ॥१६४॥ ततो मन्त्री स्माह हे योगिराज ! राज्ञा यूयमाकारिता: स्थ, राजा च सर्वदर्शनाधारो वर्तते, तेन कृपां विधाय यूयं राजसभायामागत्य कामपि कलां दर्शयत । तत् श्रुत्वा योगी प्राह हे मन्त्रीन्द्रास्मादृशां योगिनां राज्ञ: किं प्रयोजनं ? यत: भुञ्जीमहि वयं भिक्षा, जीर्णं वासो वसीमहि । शयीमहि महीपीठे, कुर्वीमहि किमीश्वरीम् ॥१६४॥ RSASRYAVASANAYASASASRYAN ॥ ४ ॥ Jain Educat For Personal Private Use Only Jw.jainelibrary.org

Loading...

Page Navigation
1 ... 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124