Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 89
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 तत उत्थाय नृपपार्श्वे गत्वा तस्य योगिन: सर्वं स्वरूपं कथयामास । पुनरपि तेन राज्ञे कथितं हे स्वामिन्नसौ योगी महाविद्वान् दानेश्वरी कलावांश्च दृश्यते, तस्य तु बहुमानदानमेव युक्तं, एते पूर्वं स्थापिताश्च योगिनोऽथ द्रुतं मोच्याः । इति श्रुत्वा राज्ञा मोचितास्ते सर्वेऽपि योगिनस्तस्याशीर्वाद दत्त्वा वने गताः, ततो राज्ञा योगीन्द्रमाकारयितुं स्वांगरक्षकास्तत्र प्रेषिताः, तानागच्छतो दृष्ट्वा योगिनोक्तं चेयूयं मत्समीपमागमिष्यथ तर्हि सर्वानपि भवतोऽहं भस्मसात्करिष्यामि, ततस्तैीतैर्दूरस्थैरेव स योगीन्द्र आकारितः, तदा योगीन्द्रेणोक्तं यदि नृपस्य कार्यं भविष्यति तदा स स्वयमेव यानं लात्वात्रागमिष्यति, ततस्तैः पश्चादलिता नृपाग्रे समागत्य योगिप्रोक्तो वृत्तान्त: कथितः, तदा सपरिवारो राजापि यानयुतस्तत्र समागतः, मन: स्थिरं यस्य विनावलम्बनं, दृष्टिः स्थिरा यस्य विनैव दर्शनम् । वपुः स्थिरं यस्य विना प्रयत्नं, स एव योगी स गुरुश्च सेव्यः ॥१६७॥ इत्युक्त्वा स योगिने प्रणाममकरोत्, बहुविधं सन्मानं च दत्तवान्, यत:विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥१६॥ 28282828282828282828282 Jnin Educa For Personal & Private Use Only Tww.jainelibrary.org

Loading...

Page Navigation
1 ... 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124