Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
SURYAYAYAYRY RURYRYNY RURY
पण्डितेषु गुणाः सर्वे, मूर्खे दोषास्तु केवलम् । तस्मान्मूर्खसहस्रेण, प्राज्ञ एको न लभ्यते ॥१६९॥ __हे योगीन्द्र त्वं विद्वानसि, तेन च सर्वमान्योऽप्यसि, इत्यादीनि राज्ञो वचांसि श्रुत्वा योगी जगौ, हे राजंस्त्वमपि पञ्चमलोकपालत्वान्मानार्होऽसि, यत:
वयोवृद्धास्तपोवृद्धा, ये च वृद्धा बहुश्रुताः । सर्वे ते धनवृद्धानां, द्वारे तिष्ठन्ति किंकराः ॥१७०॥
ततो नृपेण स योगी बहुसन्मानपूर्वकं यानारुढ: स्वावासे समानीतः, ततो राज्ञा प्रणम्य स पृष्टः, हे स्वामिन् भवतां पार्श्वे कापि कौतुककारिणी विद्या जटिका मूलिका वा वर्तते ? योगिनोक्तं गुरुप्रसादादस्त्येव, नृपः प्रोवाच तर्हि हे योगीन्द्र ! मत्पुत्री केनापि मर्कटीरूपा कृतास्ति तां त्वं सज्जीकुरु ! योगिनोक्तं चेत्तां सज्जां यथास्थितरूपां च करोमि तर्हि त्वं महा किं दास्यसि ? राज्ञोक्तं दीनारपञ्चशतीं ग्राममेकं च ते दास्यामि, योगिनोक्तं वयं योगिनो धनेन ग्रामेण च किं कुर्महे ? चेत्तया कुमार्या सह मम पाणिग्रहणं कारयिष्यसि तदैव तामहं सज्जां करिष्यामि । तत् श्रुत्वा राजा चिन्तातुरो जातः, इतस्तटी, इतश्च व्याघ्र इति न्याये पतितश्च, उक्तं च
एकतो हि गमनं परदेशे-ऽप्यन्यतश्च पिशुनैः सह संगः ।
8282828282828282828282828
॥ ७७ ॥
॥ ७७ ॥
Jain Educati
For Personal Private Use Only
wjoinelibrary.org
Loading... Page Navigation 1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124