Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
11
Jain Edur
KEREREREREREREREREREREREI
मया कथ्यमानां कथां त्वं शृणु ?
एकस्मिन् ग्रामे भ्रातृद्धयं वसति स्म, तयोश्च पुत्रपौत्रादिकं बहुलं कुटुम्बमासीत् । तत्र कुटुंबेऽन्यान्यकुलसमागतं वधूवृन्दं मिथः सर्वदा भृशं कलहं करोति स्म । तत्कलहं दृष्ट्वा तौ द्वावपि भ्रातरौ पृथग्जातौ तयोर्वृद्धभ्रातुर्धनं पुण्ययोगेन वृद्धिं प्राप्तं, लघोस्तु पापोदयेन क्षयं गतम् । तेन स लघुभ्राता प्रतिदिनं काष्ठाद्यर्थं वने याति, एवं काष्ठादि विक्रीय स सदा स्वनिर्वाहं करोति । एकदा वनमध्ये यावत्स एकं वृक्षं छिनत्ति, तावत्तत्र वसन् यक्षः प्रकटीभूय तं प्रत्युवाच हे भद्र ! त्वमेतन्मे निवासस्थानं मा छेदय । यथेष्टं च प्रार्थय । तेनोक्तं हे यक्षाधिराज ! तर्हि मत्कुटुम्बाजीविकायोग्यं धान्यादि त्वं समर्पय ! यक्षेणोक्तं तत्सर्वमहं तुभ्यं तव गृहे सर्वदार्पयिष्यामि, ततो हृष्टः स लघुभ्राता गृहे समागत्य यावद्विलोकयति तावत्स्वकुटुम्बनिर्वाहयोग्यं भाजनस्थं धान्यादि वीक्ष्य भृशं मुमोद, एवं च स प्रत्यहं यक्षेण दत्तं धान्यादि प्राप्य सुखेन स्वकुटुम्बनिर्वाहं चकार, एवं तं सुखेन कुटुम्बनिर्वाहं कुर्वन्तं विलोक्य वृद्धभ्रातृस्त्रिया लघुभ्रातृमहिलां प्रति तत्कारणं पृष्टं, तयापि च देवतुष्ट्यादि तत्सकलं स्वरूपं निगदितं । ततस्तया वृद्धभ्रातृपत्न्या स सर्वोऽपि वृत्तान्तो
For Personal & Private Use Only
PEREREREREREREREREREDERER
श्रीरूपसेन
चरित्रं
॥ ७९
11
w.jainelibrary.org
Loading... Page Navigation 1 ... 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124