SearchBrowseAboutContactDonate
Page Preview
Page 89
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 28282828282828282828282 तत उत्थाय नृपपार्श्वे गत्वा तस्य योगिन: सर्वं स्वरूपं कथयामास । पुनरपि तेन राज्ञे कथितं हे स्वामिन्नसौ योगी महाविद्वान् दानेश्वरी कलावांश्च दृश्यते, तस्य तु बहुमानदानमेव युक्तं, एते पूर्वं स्थापिताश्च योगिनोऽथ द्रुतं मोच्याः । इति श्रुत्वा राज्ञा मोचितास्ते सर्वेऽपि योगिनस्तस्याशीर्वाद दत्त्वा वने गताः, ततो राज्ञा योगीन्द्रमाकारयितुं स्वांगरक्षकास्तत्र प्रेषिताः, तानागच्छतो दृष्ट्वा योगिनोक्तं चेयूयं मत्समीपमागमिष्यथ तर्हि सर्वानपि भवतोऽहं भस्मसात्करिष्यामि, ततस्तैीतैर्दूरस्थैरेव स योगीन्द्र आकारितः, तदा योगीन्द्रेणोक्तं यदि नृपस्य कार्यं भविष्यति तदा स स्वयमेव यानं लात्वात्रागमिष्यति, ततस्तैः पश्चादलिता नृपाग्रे समागत्य योगिप्रोक्तो वृत्तान्त: कथितः, तदा सपरिवारो राजापि यानयुतस्तत्र समागतः, मन: स्थिरं यस्य विनावलम्बनं, दृष्टिः स्थिरा यस्य विनैव दर्शनम् । वपुः स्थिरं यस्य विना प्रयत्नं, स एव योगी स गुरुश्च सेव्यः ॥१६७॥ इत्युक्त्वा स योगिने प्रणाममकरोत्, बहुविधं सन्मानं च दत्तवान्, यत:विद्वत्त्वं च नृपत्वं च, नैव तुल्यं कदाचन । स्वदेशे पूज्यते राजा, विद्वान् सर्वत्र पूज्यते ॥१६॥ 28282828282828282828282 Jnin Educa For Personal & Private Use Only Tww.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy