Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 86
________________ श्रीरुपसेन चरित्रं श्रीरूपसेनचरित्रं 28888888888888888888888 समागताः सन्ति, राजा प्राह तर्हि स योगीन्द्र: क्वास्ति ? यो मयाहूतोऽपि नायात: ? तैरुक्तं हे स्वामिन् स योगीन्द्रस्तु कन्थां परिधाय चतुष्पथमध्ये ध्यानं कुर्वन् स्थितोऽस्ति, दीनजनेभ्यश्च दीनारान् यच्छति, बहवो जनास्तस्य परित उपविष्टा: सन्ति । तेषामग्रे च स परोपकारविषयमुपदेशं यच्छति, यथा कस्तूरी पृषतां रदा: करटिनां कृत्तिः पशूनां पयो, धेनूनां छदमण्डलानि शिख्रिनां रोमाण्यवीनामपि । पुच्छस्नायुवसाविषाणनखरस्वेदादिकं किंचन. स्याज्जन्मन्युपकारि मर्त्यवपुषो नामुष्य किंचित्पुनः ॥१६१॥ [अवीधेटी] स्वहस्तेन च यद्दत्तं, लभ्यते नात्र संशयः । परहस्तेन यद्दत्तं, लभ्यते वा न लभ्यते ॥ १६२ ॥ इत्याधुपदेशं लोकेभ्यो यच्छन् स तत्र स्थितोऽस्ति, तत् श्रुत्वा कुपितो राजा जगादारे यो ममाज्ञामपि न मन्यते स चायं योगी मारणीय एव । राज्ञ इति वचनं श्रुत्वा मन्त्री जगाद हे स्वामिंस्तस्य विद्यासिद्धस्य योगीन्द्रस्योपरि भवतां कोपकरणं युक्तं न, असदृशनरेषु कोपकरणं YAYAYAYYAXRYRYYYYY ॥ 3 ॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124