Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
॥ ७१ ॥
Jain Educati
AGRERERERERERERERERERERX
स्वयमेव हठान्नार्पितोऽस्ति परं तया भृशं मार्गितोऽर्पितोऽस्ति स मर्कटश्च मम वाटिकाया रक्षपालोऽभूत्. एकदा मम वाटिकायां बहवो योगिनः समुत्तरिता आसन्, तैः स मर्कटो मुक्तो विस्मृतो वेति सम्यगहं न जानामि । परं कल्ये मया कौतुकेन स कुमार्या आवासे सार्धमानीतोऽभूत्, त्वत्पुत्र्या च दृष्टो मार्गितश्च । ततः स्नेहेन मयापि तस्यै समर्पितः, तत् श्रुत्वा राजोवाचारे दुष्टे मत्पुत्री तव पार्श्वन्मर्कटं कस्मात्प्रार्थयेत् ? नूनं त्वं मृषाभाषिणी पापिष्टा हृदि च दुष्टा वर्तसे, तव तु चौरदण्ड एव युक्तोऽस्ति । राज्ञ इति वचनानि श्रुत्वा दुःखार्ता मालिनी चिन्तयति, नूनमद्य ममोपरि दैवं रुष्टमस्ति । अकृतोऽपि मम दोषो लग्नः, यतः -
जं नयणेहिं न दीसइ, हियएणवि जं न चिंतिअं कहवि । तं तं सिरम्मि निवडइ, नरस्स दिव्वे पराहूते ॥ १ ॥
ततो मन्त्रीशेन राज्ञ उक्तं हे स्वामिन्नस्याः को नामान्याय ? मुधा पापं कस्मात्क्रियते ? पूर्वमेकसर्वजीवरक्षककारुण्यनिधानवैदेशिककुमारमारणरूपं पापं तु भवता कृतमस्ति, अधुनेदं स्त्रीहत्यापातकं च मुधा कथं गृह्णासि ? अविस्मृष्टकृतं कार्यं नूनं पश्चात्तापाय जायते, तत्
For Personal & Private Use Only
FREDEREREREREREREDERERY
श्रीरूपसेन
चरित्रं
।। ७१ ।।
jainelibrary.org
Loading... Page Navigation 1 ... 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124