Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
श्रीरूपसेनचरित्रं
028282828282828282828282
यत्कीदृशोऽस्या: परिमलोऽस्तीति, अनयाघ्रातया च यावज्जीवमावयोः स्नेहो भविष्यति । तत् श्रुत्वा तया मुग्धया च तथैव कृतं, तत्क्षणमेव सा मर्कटीरूपा जाता, ततो रुपसेनकुमारो मर्कटीरूपां तां स्तम्भे बद्ध्वा तद्गृहमध्यस्थापिततद्वस्तुचतुष्टयं च लात्वा पादुकाप्रयोगेण द्रुतं मालिन्या गृहे गत:, प्रातश्च स्वकीयं सर्ववस्तुसमूहं गृहीत्वा स वने प्रयातः, तत्र च गत्वा स स्वमनसि सम्यग्विचिन्त्य योगीन्द्ररूपं विधाय कन्थादि च परिधायावधूतवेषेण स्थितः, यत:
क्वचिद्भूमौ शय्या क्वचिदपि च पर्यंकशयनं, क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥१५९॥
अथ प्रात: कुमार्याः प्रासादे यदा दास्य: समागतास्तदा कनकवतीस्थाने बद्धां तां मर्कटी विलोकयन्ति स्म । ताभिश्च तत्स्वरूपं नृपाय ज्ञापितं, हे स्वामिंस्तव पुत्री मर्कटीरूपा जातास्ति । राज्ञापि तत्रागत्य तद्विलोकितं, तदा तस्य मनसि नेदः समुत्पन्नः, ततोऽसौ विचारयामास किमयं कोऽपि दृष्टिदोषोऽभूत् ? किं वा कोऽपि शाकिन्यादिच्छलो जातोऽस्ति ? वा केनापि शप्तास्ति ? अथवा केनापि दुष्टेन मन्त्रशक्त्या मर्कटी कृतास्ति ? वा केनापि वैरिणा सुरेण सा मर्कटीत्वं
028282828282828282828282
६९ ॥
॥
६९
॥
Jain Euca
For Personal Private Use Only
Ljainelibrary.org
Loading... Page Navigation 1 ... 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124