SearchBrowseAboutContactDonate
Page Preview
Page 82
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं श्रीरूपसेनचरित्रं 028282828282828282828282 यत्कीदृशोऽस्या: परिमलोऽस्तीति, अनयाघ्रातया च यावज्जीवमावयोः स्नेहो भविष्यति । तत् श्रुत्वा तया मुग्धया च तथैव कृतं, तत्क्षणमेव सा मर्कटीरूपा जाता, ततो रुपसेनकुमारो मर्कटीरूपां तां स्तम्भे बद्ध्वा तद्गृहमध्यस्थापिततद्वस्तुचतुष्टयं च लात्वा पादुकाप्रयोगेण द्रुतं मालिन्या गृहे गत:, प्रातश्च स्वकीयं सर्ववस्तुसमूहं गृहीत्वा स वने प्रयातः, तत्र च गत्वा स स्वमनसि सम्यग्विचिन्त्य योगीन्द्ररूपं विधाय कन्थादि च परिधायावधूतवेषेण स्थितः, यत: क्वचिद्भूमौ शय्या क्वचिदपि च पर्यंकशयनं, क्वचिच्छाकाहारः क्वचिदपि च शाल्योदनरुचिः । क्वचित्कन्याधारी क्वचिदपि च दिव्याम्बरधरो, मनस्वी कार्यार्थी न गणयति दुःखं न च सुखम् ॥१५९॥ अथ प्रात: कुमार्याः प्रासादे यदा दास्य: समागतास्तदा कनकवतीस्थाने बद्धां तां मर्कटी विलोकयन्ति स्म । ताभिश्च तत्स्वरूपं नृपाय ज्ञापितं, हे स्वामिंस्तव पुत्री मर्कटीरूपा जातास्ति । राज्ञापि तत्रागत्य तद्विलोकितं, तदा तस्य मनसि नेदः समुत्पन्नः, ततोऽसौ विचारयामास किमयं कोऽपि दृष्टिदोषोऽभूत् ? किं वा कोऽपि शाकिन्यादिच्छलो जातोऽस्ति ? वा केनापि शप्तास्ति ? अथवा केनापि दुष्टेन मन्त्रशक्त्या मर्कटी कृतास्ति ? वा केनापि वैरिणा सुरेण सा मर्कटीत्वं 028282828282828282828282 ६९ ॥ ॥ ६९ ॥ Jain Euca For Personal Private Use Only Ljainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy