Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 81
________________ श्रीरुपसेनचरित्रं श्रीरूपसेन चरित्रं 282828282828282828282828 प्राप्तुं पारमपारस्य, पारावारस्य पार्यते । स्त्रीणां प्रकृतिवक्राणां, दुश्चरित्रस्य नो पुनः ॥१५५॥ कुमित्रे नास्ति विश्वासः, कुभार्यातः कुतः सुखं । कुराज्ये निर्वृतिर्नास्ति, कुदेशे नास्ति जीवितम् ॥१५६॥ तत् श्रुत्वा राजकुमारी प्राह हे स्वामिन् युष्मादृशाः सत्पुरुषाः कृतापराधेऽपि जने न कुप्यन्ति, नूनं मया युष्माकं सन्ताप: कृतोऽस्ति, तेनाहमग्नितुल्या जातास्मि, यूयं च चन्दनसमा: स्थ, यत: सुजनो न याति विकृति, परहितनिरतो विनाशकालेऽपि ॥ छिन्नोऽपि हि चन्दनतरुः, सुरभयति मुखं कुठारस्य ॥१५७॥ अथाहं हे स्वामिन् युष्मत्पादयोर्मुहुर्मुहुः प्रणिपत्य कथयामि, यन्ममापराध: क्षन्तव्यः, इत्यादीनि कुमारीवचनानि श्रुत्वा रूपसेनकुमारेणोक्तं, हे प्रियेऽस्मिन् विषये तव कश्चिदप्यपराधो नास्ति, मम प्राक्तनकर्मण एवायं दोषोऽस्ति, यत: उदयति यदि भानुः पश्चिमायां दिशायां, विकसति यदि पद्मं पर्वताग्रे शिलायाम् । प्रचलति यदि मेरुः शीततां याति वह्नि-स्तदपि न चलतीयं भाविनी कर्मरखा ॥१५८॥ अथ हे प्रिये यदि त्वं मदाज्ञावर्तिन्यसि तदा त्वमेनामौषधीं गृहाण । आघ्राय च विलोकय 282828282828282828282828 ॥ ६८ ॥ For Personal Private Use Only

Loading...

Page Navigation
1 ... 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124