SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 282828282828282828282829 अपसेत्ववटे नीरं, चालिन्यां सूक्ष्मपिष्टकम् । स्त्रीणां च हृदये वार्ता, न तिष्ठन्ति कदाचन ॥१५४॥ तेनैव हेतुना त्वामहं दृढं कथयन्नस्मि । मालिन्योक्तं हे बान्धव त्वमेवं पुन: पुन: कस्माद्वदसि ? सर्वा अपि स्त्रियस्तुल्या न स्युः, अतस्त्वं मे निःशंकं कथय ? तदा कुमार: प्राह हे भगिनि शृणु । अहं केनाप्युपायेन मर्कटो भविष्यामि, ततश्च त्वया मर्कटरूपं मामादायैकदा राजकुमार्या आवासे गन्तव्यं । ततो यदा सा कुमारी मर्कटरूपं मां क्रीडार्थं मार्गयेत्तदा त्वया सहसाहं नार्पणीयः, परं यद्यत्याग्रहं कुर्यात्तदा त्वयाहमर्पणीयः, यथेच्छं मूल्यद्रव्यं च गृहणीयं, एवं च कृते तवापि लाभो ममापि च कार्यसिद्धिर्भविष्यति, तत् श्रुत्वा तयोक्तं हे भ्रातस्त्वदुक्तं मम प्रमाणमेव, अहमपि तथैव करिष्यामि । तत: कुमारो मर्कटरूपो जात:, तं मर्कटं च लात्वा सा मालिनी स्वगृहे समायाता. तत: सा तं मर्कटं कपर्दिकाघुघुरिकावस्त्रादिभिरलंकृत्य तेन सह कनकवत्याः प्रासादे गता । तत्र पुष्पादिप्राभृतं विधाय प्रणामं कुर्वन्ती सा मालिनी कुमार्या पृष्टा, हे सखि एष मर्कटस्तु सुन्दरो दृश्यमानोऽस्ति, तस्येनं क्रीडाविनोदार्थ मह्यं समर्पय ! तत् श्रुत्वा मालिनी प्राह, हे स्वामिनि सर्वमपि त्वदायत्तमेवास्ति, परमयं मर्कटस्तु मम वाटिकाया 2U828282828282828AVAA For Personal Private Use Only
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy