SearchBrowseAboutContactDonate
Page Preview
Page 78
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 इत: सा मालिन्यपि पुष्पग्रहणार्थं तत्र समायाता, कुमारं च दृष्ट्वा हृष्टा सत्युवाच, भो भ्रातस्त्वमियन्ति दिनानि क्व गतोऽभू: ? केन कारणेन कस्मै लाभाय कस्य मिलनार्थं वा गत आसी: ? तत् श्रुत्वा रूपसेनकुमारेणोक्तं हे भगिनि त्वं शृणु ! इत्युक्त्वा कुमारेण सकलमपि कनकवत्या: स्वरूपं तस्या अग्रे निवेदितम् । तदा विस्मितया तया पृष्टं, हे भ्रात: सा कनकवती त्वत्रैव स्थितास्त्यहं तु सर्वदा तस्याः पार्श्व गच्छामि । तेनोक्तं तस्यां रात्रौ सा मया सार्धं समागताभूत, परं मयि निद्राणे सा मम सर्वस्वं लात्वात्रागतास्ति, एवं च तया मया सार्धं विश्वासघात: कृतोऽस्ति, ततोऽथ तस्यास्तद्विश्वासघातफलदर्शनार्थं ममाभिलाषो वर्त्तते । तत् श्रुत्वा मालिन्योक्तं हे भ्रातरबलोपरि क: कोप: ? कीटिकोपरि क: कटकाकोप: ? कुमारेणोक्तमथैकवारं तस्या: समीपे गन्तुं ममेच्छा वर्तते, मालिन्योक्तं तत्र तु सप्तशतमिता आरक्षका: सन्ति, ततो विना पादुके तत्र गमनमशक्यमेव । कुमारेणोक्तं हे भगिनि तत्र गमने मम पार्श्वे एका बुद्धिवर्तते, ततो यदि त्वं मे कथितं करोषि तदा तां बुद्धिमहं कथयामि । तवृत्तान्तस्तु त्वया कस्याप्यने न कथनीयः, यन्मम स्त्रीणां विश्वासो नास्ति, स्त्रीणां हृदये गाम्भीर्यं न स्यात, यत: 282828282828282828282828 ६५ Jain Educat For Personal & Private Use Only sow.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy