SearchBrowseAboutContactDonate
Page Preview
Page 80
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं ॥ ६७ Jain Educati AERGAGAGAGAGAGAGRERERERE रक्षकोऽस्ति मम भर्तुरपि स प्राणप्रियोऽस्ति मे बालका अपि चैतेन सह क्रीडां कुर्वन्ति, तेन सतुभ्यं कथमर्पयितुं शक्यते । तदा कुमारी प्राह त्वं किमपि द्रव्यं गृहाण, परं ममैनं मर्कटमर्पय । येन मे दिनानि सुखेन यान्ति । ततः कुमार्या तस्यै मालिन्यै एको दीनार एका च वर्या शाटिका दत्ता, एवमतीवाग्रहतो मालिन्यापि तस्यै मर्कटो दत्तः ततो मालिनी स्वमन्दिरे गता, कुमारी च सकलं दिनं यावत्तेन मर्कटेन सह क्रीडाविनोदं चकार । अथ सन्ध्यासमये यदा सर्वो दास्यादिपरिवार: स्वस्वस्थानके प्राप्तस्तदा स मर्कटो मूलिकामाघ्राय यथावस्थितरूपो रूपसेनकुमारो जातस्तं वीक्ष्य चकितया कुमार्या चिन्तितमहो किमिदमाश्चर्यं ! किं वेन्द्रजालं ! किं वा कोऽपि स्वप्नभ्रमः । ततः सा लज्जाया स्ववस्त्रांगसंवरणं विधाय देवमिवागतं स्वपतिं ज्ञात्वा तत्पादयोः पतिता, कथयामास च हे स्वामिन् ममापराधं त्वं क्षमस्व ! हे प्राणनाथ ! त्वमेव मम जीवनं गतिश्च । अज्ञानान्मया कृतोऽन्यायस्त्वया मनसि नानेयः, एकवारं च क्षन्तव्यः, अथ पुनरहमेवं नैव करिष्यामि । तत् श्रुत्वा कुमारः प्राह, हे प्रिये बहुकथनेनाथ किं स्यात् ? कृत्रिमस्नेहेन मनागपि कार्यसिद्धिर्न भवति, सत्यस्नेहरंगस्तु दुर्लभः । यतः For Personal & Private Use Only REDEREREREDERERERERERER श्रीरूपसेन चरित्रं ॥ ६७ ॥ jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy