Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282828282828
इत: सा मालिन्यपि पुष्पग्रहणार्थं तत्र समायाता, कुमारं च दृष्ट्वा हृष्टा सत्युवाच, भो भ्रातस्त्वमियन्ति दिनानि क्व गतोऽभू: ? केन कारणेन कस्मै लाभाय कस्य मिलनार्थं वा गत आसी: ? तत् श्रुत्वा रूपसेनकुमारेणोक्तं हे भगिनि त्वं शृणु ! इत्युक्त्वा कुमारेण सकलमपि कनकवत्या: स्वरूपं तस्या अग्रे निवेदितम् । तदा विस्मितया तया पृष्टं, हे भ्रात: सा कनकवती त्वत्रैव स्थितास्त्यहं तु सर्वदा तस्याः पार्श्व गच्छामि । तेनोक्तं तस्यां रात्रौ सा मया सार्धं समागताभूत, परं मयि निद्राणे सा मम सर्वस्वं लात्वात्रागतास्ति, एवं च तया मया सार्धं विश्वासघात: कृतोऽस्ति, ततोऽथ तस्यास्तद्विश्वासघातफलदर्शनार्थं ममाभिलाषो वर्त्तते । तत् श्रुत्वा मालिन्योक्तं हे भ्रातरबलोपरि क: कोप: ? कीटिकोपरि क: कटकाकोप: ? कुमारेणोक्तमथैकवारं तस्या: समीपे गन्तुं ममेच्छा वर्तते, मालिन्योक्तं तत्र तु सप्तशतमिता आरक्षका: सन्ति, ततो विना पादुके तत्र गमनमशक्यमेव । कुमारेणोक्तं हे भगिनि तत्र गमने मम पार्श्वे एका बुद्धिवर्तते, ततो यदि त्वं मे कथितं करोषि तदा तां बुद्धिमहं कथयामि । तवृत्तान्तस्तु त्वया कस्याप्यने न कथनीयः, यन्मम स्त्रीणां विश्वासो नास्ति, स्त्रीणां हृदये गाम्भीर्यं न स्यात, यत:
282828282828282828282828
६५
Jain Educat
For Personal & Private Use Only
sow.jainelibrary.org
Loading... Page Navigation 1 ... 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124