Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेन
चरित्रं
श्रीरूपसेन
चरित्रं
8282828282828282828282828
स जागरयति-प्रोज्जृम्भते परिमल: कमलावलीनां, शब्दं करोति च तरूपरि ताम्रचूडः ।
शृङ्गं पवित्रयति मेरुगिरेविवस्वा-नुत्थीयतां सुनयने ! रजनी जगाम ॥१४७॥ तथापि सा न वदति । पुनः क्षणं प्रतीक्ष्य स स्वप्रियामुद्दिश्य बभाषेएते व्रजन्ति हरिणास्तृणभक्षणाय, चूणिं विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथा पथिकलोकगणप्रपूर्ण, उत्थीयतां सुनयने रजनी जगाम ॥१४॥
इत्युक्तेऽपि किञ्चिदप्युत्तरमलब्ध्वा विस्मितो रूपसेनकुमारो यावत्सावधानतया विलोकयति तावत्तत्र स्वभार्यां न पश्यति स्म, कन्थादिवस्तुचतुष्टयमपि न विलोकयति स्म । अहो मम निद्रामध्ये इदं किं जातं ? यत:
निद्रा मूलमनर्थानां, निद्रा श्रेयोविघातिनी । निद्रा प्रमादजननी, निद्रा संसारखर्धनी ॥१४९॥ नूनं मनुष्याणां निद्रया हानिरेव स्यात्, उक्तं चआजन्मोपार्जितं द्रव्यं, निद्रया व्यवहारिणाम् । चौरैस्तु गृह्यते सर्वं, तस्मादेतां विवर्जयेत् ॥१५०॥ ततोऽसावुत्थाय तां सर्वत्र विलोकयामास, परं सा न लब्धा. ततः स मनसि चिन्तयत्यहो
8882828282828282828282828
Jnin Educat
For Personal Private Use Only
www.jainelibrary.org
Loading... Page Navigation 1 ... 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124