SearchBrowseAboutContactDonate
Page Preview
Page 76
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेन चरित्रं श्रीरूपसेन चरित्रं 8282828282828282828282828 स जागरयति-प्रोज्जृम्भते परिमल: कमलावलीनां, शब्दं करोति च तरूपरि ताम्रचूडः । शृङ्गं पवित्रयति मेरुगिरेविवस्वा-नुत्थीयतां सुनयने ! रजनी जगाम ॥१४७॥ तथापि सा न वदति । पुनः क्षणं प्रतीक्ष्य स स्वप्रियामुद्दिश्य बभाषेएते व्रजन्ति हरिणास्तृणभक्षणाय, चूणिं विधातुमथ यान्ति हि पक्षिणोऽपि । मार्गस्तथा पथिकलोकगणप्रपूर्ण, उत्थीयतां सुनयने रजनी जगाम ॥१४॥ इत्युक्तेऽपि किञ्चिदप्युत्तरमलब्ध्वा विस्मितो रूपसेनकुमारो यावत्सावधानतया विलोकयति तावत्तत्र स्वभार्यां न पश्यति स्म, कन्थादिवस्तुचतुष्टयमपि न विलोकयति स्म । अहो मम निद्रामध्ये इदं किं जातं ? यत: निद्रा मूलमनर्थानां, निद्रा श्रेयोविघातिनी । निद्रा प्रमादजननी, निद्रा संसारखर्धनी ॥१४९॥ नूनं मनुष्याणां निद्रया हानिरेव स्यात्, उक्तं चआजन्मोपार्जितं द्रव्यं, निद्रया व्यवहारिणाम् । चौरैस्तु गृह्यते सर्वं, तस्मादेतां विवर्जयेत् ॥१५०॥ ततोऽसावुत्थाय तां सर्वत्र विलोकयामास, परं सा न लब्धा. ततः स मनसि चिन्तयत्यहो 8882828282828282828282828 Jnin Educat For Personal Private Use Only www.jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy