SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ श्रीरूपसेनचरित्रं .. Jain Educati AKAGAGAUDERERERERERERERE स शुकस्तु तदेव पदमाह । ततस्तया ज्ञातमहो धूर्तेन तेन विप्रेणाहं बाढं वञ्चिता, एवमहमप्यनेन धूर्तेनेयत्कालं विप्रतारिता । अरेरे राजकुमार्या ममानेन योगिना सह संयोगो जातः, अहो कर्मणां गतिर्विचित्रास्ति, यतः - अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते । विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १४५ ॥ हाहा दैवेन दुर्घटं घटितं, अहो नीचजातीयजनसंगान्मरणमेव श्रेयस्करम् । अथ त्वहं यदि पश्चाद्यामि तदैव वरमिति विचिन्त्य सा तद्वस्तुचतुष्टयं गृहीत्वा पादुकाप्रयोगेण शीघ्रं स्वनगरे स्वावासे प्राप्ता, केनापि च तद्गमनागमनं न ज्ञातं, अहो निर्बुद्धिकत्वेन दृढस्नेहाभावेन च सा मूर्खा तं चिन्तामणितुल्यमपि त्यक्त्वा गता, यतः - अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशोचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥१४६॥ स्त्रीणां हि प्रायोऽविमृश्यकारित्वमेव स्यात् । इतोऽत्र कुमारो जागरितः स्वप्रियामालापयति, परं कोऽप्युत्तरं न ददाति तदा तेनान्धकारे ज्ञातं यत्तस्या निद्रा समागता भविष्यति । ततस्तां For Personal & Private Use Only RERERERERERERERERERERERY श्रीरूपसेन चरित्रं 11 ॥ jainelibrary.org
SR No.600182
Book TitleRupsen Rajkumar Kurmaputra Charitra
Original Sutra AuthorAnupram Sadashiv Sharma, Dharmtilakvijay
Author
PublisherSmruti Mandir Prakashan Ahmedabad
Publication Year2002
Total Pages124
LanguageGujarati
ClassificationManuscript
File Size10 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy