Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 74
________________ श्रीरूपसेनचरित्रं श्रीरूपसेन चरित्रं YYYYYYYYYYYY तन्मूलिकाद्वयं गृहीतं । अथ कनकवती जागृता । कुमारश्च सुप्तः, क्षणेन तस्य निद्रापि समागता । तत: कनकवत्या चिन्तितमेतद्ग्रन्थि विलोकयामीति, ततो यावत्तां ग्रन्थि छोटयित्वा सा विलोकयति तावत्तया तन्मध्ये कन्थापात्रदण्डादि दृष्टं, तद् दृष्ट्वा चमत्कृता सा चिन्तयामास नूनमयं कोऽपि धूर्तो योगी दृश्यते, वेषपरावर्तनेन धूर्तविद्ययाडम्बरेण चाहं मुग्धानेनेयत्कालं विप्रतारितास्मि, यत: प्रथमं डम्बरं दृष्ट्वा, न प्रतीयाद्धिचक्षणः । अत्यल्पपठितं कीरं, मेने व कुट्टिनी यथा ॥१४४॥ तथाहि-सिन्दूरपुरे मदनकाभिधो धूर्त एको विप्र आसीत् । तेनैक: शुकः पाठयितुमारेभे, परं तस्य शुकस्य तु किमपि नायाति । ततस्तेन शठेन 'वीसे वीसा' इत्येकमेव पदं स पाठितः, ततस्तं सुन्दरपञ्जरमध्ये संस्थाप्य चतुष्पथे तद्विक्रयार्थं स्थितः, इत एका वेश्या तत्र समायाता, तया विप्रं प्रति पृष्टं भो विप्रायं शुक: किं वेत्ति ? विप्रः प्राहायं तु सर्वमपि वेत्ति, त्वं स्वयमेव पृच्छ ! ततस्तया शुकं प्रति पृष्ट भो शुक ! त्वं मातृकां पठितुं वेत्सि ? शुकेनोक्तं 'वीसे वीसा' ततस्तया हृष्टया स शुको ब्राह्मणं प्रति बहुद्रव्यं दत्त्वा गृहीतः, गृहे समागत्य पृष्टः 028282828282828282828288 ॥६१ ॥ For Personal Private Use Only Wrianelibrary.org

Loading...

Page Navigation
1 ... 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124