Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay, 
Publisher: Smruti Mandir Prakashan Ahmedabad

View full book text
Previous | Next

Page 77
________________ श्रीरूपसेनचरित्रं ! Jain Educat RERERERERERERERERERERE RY नूनं सा मातृपितृमिलनमनोरथा पुनः स्वस्थानक एव गता संभाव्यते, परं सा मम दिव्यवस्तुग्रन्थिमप्यादाय यद्गता तदैतत्कार्यं मम दुःखं करोति, यतः - रात्रिर्गमिष्यति भविष्यति सुप्रभातं, भास्वानुदेष्यति हसिष्यति पंकजं च । इत्थं विचिन्तयति कोशगते द्विरेफे । हां हन्त हन्त नलिनीं गज उज्जहार ।। १५१।। ततः कुमारेण चिन्तितं नूनं सापि मालिनीव मम योगिस्वरूपं ज्ञात्वा भीता सती पश्चात्स्वगृहे गता संभाव्यते, मूर्खत्वेनौत्सुक्यत्वेन च तयैवं कृतं ज्ञायते, यतः मूर्खस्य पापस्य न किञ्चिदन्तरं, बालस्य वृद्धस्य न किञ्चिदन्तरं । विषस्य तैलस्य न किञ्चिदन्तरं, मृतामृतस्यापि न किञ्चिदन्तरं ।।१५२। अहो स्त्रीणां ये विश्वासं कुर्वन्ति ते मूर्खा एव यत: नदीनारीनरेन्द्राणां नीचनागिनीयोगिनाम् । नखिनां च न विश्वासः, कर्तव्य: सुमनस्विना || १५३।। ततः कुमारो मर्कटमनुष्यभवनमूलिकाद्वयं गृहीत्वा एकया मूलिकया च स्वयं मर्कटीभूय कियद्भिर्दिनैः स कनकपुरे तस्यामेव वाटिकायां गतः, ततोऽसौ द्वितीयां मूलिकामाघ्राय यथास्थितस्वरूपो जात: सन् चम्पकवृक्षतले सुप्तः । For Personal & Private Use Only REDGRURYRERERERERERERERY श्रीरूपसेन चरित्रं " • 11 v.jainelibrary.org

Loading...

Page Navigation
1 ... 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124