Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
..
Jain Educati
AKAGAGAUDERERERERERERERE
स शुकस्तु तदेव पदमाह । ततस्तया ज्ञातमहो धूर्तेन तेन विप्रेणाहं बाढं वञ्चिता, एवमहमप्यनेन धूर्तेनेयत्कालं विप्रतारिता । अरेरे राजकुमार्या ममानेन योगिना सह संयोगो जातः, अहो कर्मणां गतिर्विचित्रास्ति, यतः -
अघटितघटितानि घटयति, सुघटितघटितानि जर्जरीकुरुते ।
विधिरेव तानि घटयति, यानि पुमान्नैव चिन्तयति ॥ १४५ ॥ हाहा दैवेन दुर्घटं घटितं, अहो नीचजातीयजनसंगान्मरणमेव श्रेयस्करम् । अथ त्वहं यदि पश्चाद्यामि तदैव वरमिति विचिन्त्य सा तद्वस्तुचतुष्टयं गृहीत्वा पादुकाप्रयोगेण शीघ्रं स्वनगरे स्वावासे प्राप्ता, केनापि च तद्गमनागमनं न ज्ञातं, अहो निर्बुद्धिकत्वेन दृढस्नेहाभावेन च सा मूर्खा तं चिन्तामणितुल्यमपि त्यक्त्वा गता, यतः -
अनृतं साहसं माया, मूर्खत्वमतिलोभता । अशोचं निर्दयत्वं च, स्त्रीणां दोषाः स्वभावजाः ॥१४६॥ स्त्रीणां हि प्रायोऽविमृश्यकारित्वमेव स्यात् । इतोऽत्र कुमारो जागरितः स्वप्रियामालापयति, परं कोऽप्युत्तरं न ददाति तदा तेनान्धकारे ज्ञातं यत्तस्या निद्रा समागता भविष्यति । ततस्तां
For Personal & Private Use Only
RERERERERERERERERERERERY
श्रीरूपसेन
चरित्रं
11
॥
jainelibrary.org
Loading... Page Navigation 1 ... 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124