Book Title: Rupsen Rajkumar Kurmaputra Charitra
Author(s): Anupram Sadashiv Sharma, Dharmtilakvijay,
Publisher: Smruti Mandir Prakashan Ahmedabad
View full book text ________________
श्रीरूपसेनचरित्रं
॥ ५१
Jain Educati
REREREREREREREREREREREREI
अथ तया स्वभर्त्रे मालिकाय ज्ञापितं, हे स्वामिन्ननेन कुमारेण धनार्पणादस्माकमुपरि भूरिरुपकारः कृतोऽस्ति, अथास्मिन्नवसरे वयमपि तस्योपरि चेत्प्रत्युपकारं कुर्महे तदैव योग्यं कथ्यते । यतःदो पुरिसे धरउ धरा, अहवा दोहिं हि धारिआ पुहवी । उवयारे जस्स मणो, उबकरिअं जो न विसर || १२३|| अत्र बहवोऽपि धनवन्तः सन्ति, परमुदारा न सन्ति, अनेन कुमारेण तु स्वौदार्यगुणेनास्माकमुपरि बहुरुपकारः कृतोऽस्ति, तेन हे स्वामिंस्त्वं तत्रेमं दण्डं लात्वा गच्छ । एनं परोपकारिणं कुमारं च जीवापय । रात्रिसमयो जातोऽस्ति, तेन तत्र गत्वा वास्त्रयं त्वमनेन दण्डेन तस्य शरीरं शनैः शनैस्ताडय । यथा स सजीवो भृत्वा सुखी स्यात् । तथा चोक्तं पद्मपुराणेऽपि -
परोपकारः कर्तव्यः, प्राणैरपि धनैरपि । परोपकारजं पुण्यं न स्याद्यज्ञशतैरपि ॥ १२४ ॥ परोपकरणं येषां, जागर्ति हृदये सन्ताम् । नश्यन्ति विपदस्तेषां सम्पदः स्युः पदे पदे ॥१२५॥ तदा मालिकेनोक्तं हे प्रिये ! त्वया सत्यं कथितं परं त्वं मुग्धासि, स्त्रीणां बुद्धिः पाष्णिस्थिता भवति, चेदहं तत्र गत्वा तथा करोमि, राजा चैतच्चरमुखाज्जानाति, तदाहमपि तत्र तथैव द्वितीयो भवामि, तेन च राजविरुद्धमहं सर्वथा न करिष्ये । तत् श्रुत्वा मालिनी प्राह प्रशा
For Personal & Private Use Ority
REDERERERERERERERERERERER
श्रीरूपसेन
चरित्रं
।। ५१ ।।
jainelibrary.org
Loading... Page Navigation 1 ... 62 63 64 65 66 67 68 69 70 71 72 73 74 75 76 77 78 79 80 81 82 83 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124